Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 13

65 Mantra
23/13
Devata- ब्रह्मादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
वा॒युष्ट्वा॑ पच॒तैर॑व॒त्वसि॑तग्रीव॒श्छागै॑र्न्य॒ग्रोध॑श्चम॒सैः श॑ल्म॒लिर्वृद्ध्या॑। ए॒ष स्य रा॒थ्यो वृषा॑ प॒ड्भिश्च॒तुर्भि॒रेद॑गन्ब्र॒ह्मा कृ॑ष्णश्च नोऽवतु॒ नमो॒ऽग्नये॑॥१३॥

वा॒युः। त्वा॒। प॒च॒तैः। अ॒व॒तु॒। असि॑तग्रीव॒ इत्यसि॑तऽग्रीवः। छागैः॑। न्य॒ग्रोधः॑। च॒म॒सैः। श॒ल्म॒लिः। वृद्ध्या॑। ए॒षः। स्यः। रा॒थ्यः। वृषा॑। प॒ड्भिरिति॑ प॒ड्ऽभिः। च॒तुर्भि॒रिति॑ च॒तुःभिः॑। आ। इत्। अ॒ग॒न्। ब्र॒ह्मा। अकृ॑ष्णः। च॒। नः॒। अ॒व॒तु॒। नमः॑। अ॒ग्नये॑ ॥१३ ॥

Mantra without Swara
वायुष्ट्वा पचतैरवतुऽअसितग्रीवश्छागैन्यग्रोधश्चमसैः शल्मलिर्वृद्धयाऽएष स्य राथ्यो वृषा । पड्भिश्चतुर्भिरेदगन्ब्रह्माकृष्णश्च नोवतु नमो ग्नये ॥

वायुः। त्वा। पचतैः। अवतु। असितग्रीव इत्यसितऽग्रीवः। छागैः। न्यग्रोधः। चमसैः। शल्मलिः। वृद्ध्या। एषः। स्यः। राथ्यः। वृषा। पड्भिरिति पड्ऽभिः। चतुर्भिरिति चतुःभिः। आ। इत्। अगन्। ब्रह्मा। अकृष्णः। च। नः। अवतु। नमः। अग्नये॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वायुः) आदिमः स्थूलः कार्य्यरूपः (त्वा) त्वाम् (पचतैः) परिपाकपरिणामैः (अवतु) रक्षतु (असितग्रीवः) असिता कृष्णा ग्रीवा शिखा यस्य सः (छागैः) छेदनैः (न्यग्रोधः) वटः (चमसैः) मेघैः (शल्मलिः) वृक्षविशेषः (वृद्ध्या) वर्द्धनेन (एषः) (स्यः) सः (राथ्यः) रथेषु हिता रथ्यास्तासु कुशलः (वृषा) वर्षकः (पड्भिः) पादैः। अत्र वर्णव्यत्ययेन दस्य डः (चतुर्भिः) (आ) (इत्) एव (अगन्) गच्छति (ब्रह्मा) चतुर्वेदवित् (अकृष्णः) अविद्यान्धकाररहितः (च) (नः) अस्मान् (अवतु) प्रवेशयतु (नमः) अन्नम् (अग्नये) प्रकाशमानाय विदुषे॥१३॥
Essence
हे मनुष्याः! वायुः प्राणेनाग्निः पाचनेन सूर्यो वृष्ट्या वृक्षाः फलादिभिरश्वादयो गत्या विद्वांसः शिक्षया युष्मान् रक्षन्ति तान् यूयं विजानीत विदुषस्सत्कुरुत च॥१३॥
Subject
अथ विद्वद्भिर्मनुष्याः क्व योजनीया इत्याह॥
Anvaya
हे विद्यार्थिन्! पचतैर्वायुश्छागैरसितग्रीवश्चमसैर्न्यग्रोधो वृद्ध्या शल्मलिस्त्वावतु। य एष राथ्यो वृषा स्य चतुर्भिः पड्भिरित्त्वाऽगन् योऽकृष्णो ब्रह्मा च नोऽस्मानवतु, तस्मा अग्नये विद्यया प्रकाशमानाय नमो देयम्॥१३॥