Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 12

65 Mantra
23/12
Devata- विद्युदादयो देवताः Rishi- प्रजापतिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ऽआसीद् बृ॒हद्वयः॑। अवि॑रासीत् पिलिप्पि॒ला रात्रि॑रासीत् पिशङ्गि॒ला॥१२॥

द्यौः। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः। अश्वः॑। आ॒सी॒त्। बृ॒हत्। वयः॑। अविः॑। आ॒सी॒त्। पि॒लि॒प्पि॒ला। रात्रिः॑। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥१२ ॥

Mantra without Swara
द्यौरासीत्पूर्वचित्तिः अश्वऽआसीद्बृहद्वयः । अविरासीत्पिलिप्पिला रात्रिरासीत्पिशङ्गिला ॥

द्यौः। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। अश्वः। आसीत्। बृहत्। वयः। अविः। आसीत्। पिलिप्पिला। रात्रिः। आसीत्। पिशङ्गिला॥१२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(द्यौः) दिव्यगुणप्रदा वृष्टिः। द्यौर्वै वृष्टिः। (शत॰१३।२।६।१६) (आसीत्) अस्ति (पूर्वचित्तिः) प्रथमस्मृतिविषया (अश्वः) योऽश्नुते मार्गान् सोऽग्निः (आसीत्) (बृहत्) महत् (वयः) यो वेति गच्छति सः (अविः) रक्षणादिकर्त्री पृथिवी (आसीत्) (पिलिप्पिला) (रात्रिः) (आसीत्) (पिशङ्गिला)॥१२॥
Essence
हवनसूर्यरूपाद्यग्नितापेन सर्वगुणसंपन्नाऽन्नादिना संसारस्थितिनिमित्ता वृष्टिर्जायते, ततः सर्वरत्नाढ्या भूर्भवति। सूर्याग्निनिमित्तेनैव प्राणिनां शयनाय रात्रिर्जायते॥१२॥
Subject
अथ प्राक्प्रश्नोत्तराण्याह॥
Anvaya
हे जिज्ञासवः! पूर्वचित्तिर्द्यौरासीद्, बृहद्वयोऽश्व आसीत्, पिलिप्पिलाऽविरासीत्, पिशङ्गिला रात्रिरासीदिति यूयं बुध्यध्वम्॥१२॥