Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 23 / Mantra 11

65 Mantra
23/11
Devata- जिज्ञासुर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
का स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ किस्वि॑दासीद् बृ॒हद्वयः॑। का स्वि॑दासीत् पिलिप्पि॒ला का स्वि॑दासीत् पिशङ्गि॒ला॥११॥

का। स्वि॒त्। आ॒सी॒त्। पू॒र्वचि॑त्ति॒रिति॑ पू॒र्वऽचि॑त्तिः॒। किम्। स्वि॒त्। आ॒सी॒त्। बृ॒हत्। वयः॑। का। स्वि॒त्। आ॒सी॒त्। पि॒लि॒प्पि॒ला। का। स्वि॒त्। आ॒सी॒त्। पि॒श॒ङ्गि॒ला ॥११ ॥

Mantra without Swara
का स्विदासीत्पूर्वचित्तिः किँ स्विदासीद्बृहद्वयः । का स्विदासीत्पिलिप्पिला का स्विदासीत्पिशङ्गिला ॥

का। स्वित्। आसीत्। पूर्वचित्तिरिति पूर्वऽचित्तिः। किम्। स्वित्। आसीत्। बृहत्। वयः। का। स्वित्। आसीत्। पिलिप्पिला। का। स्वित्। आसीत्। पिशङ्गिला॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(का) (स्वित्) (आसीत्) अस्ति (पूर्वचित्तिः) पूर्वा चासौ चित्तिः प्रथमा स्मृतिविषया (किम्) (स्वित्) (आसीत्) (बृहत्) महत् (वयः) यो वेति गच्छति स पक्षी (का) (स्वित्) (आसीत्) (पिलिप्पिला) आर्द्रीभूता चिक्कणा शोभना। श्रीर्वै पिलिप्पिला॥ (शत॰१३।२।६।१६) (का) (स्वित्) (आसीत्) (पिशङ्गिला) या पिशं प्रकाशरूपं गिलति सा। पिशमिति रूपनाम॥११॥
Essence
एतेषामुत्तराण्युत्तरत्र मन्त्रे सन्ति। यदि विदुषः प्रति प्रश्नान्न कुर्युस्तर्हि विद्वांसोऽपि न भवेयुः॥११॥
Subject
पुनः प्रश्नानाह॥
Anvaya
हे विद्वांसः! वयं युष्मान् प्रति का स्वित् पूर्वचित्तिरासीत्, किंस्विद् बृहद्वय आसीत्, का स्वित् पिलिप्पिलाऽऽसीत्, का स्वित् पिशङ्गिलाऽऽसीदिति पृच्छामः॥११॥