Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 22 / Mantra 9

34 Mantra
22/9
Devata- सविता देवता Rishi- विश्वामित्र ऋषिः Chhand- निचृद्गायत्री Swara- षड्जः
Mantra with Swara
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑त्॥९॥

तत्। स॒वि॒तुः। वरे॑ण्यम्। भर्गः॑। दे॒वस्य॑। धी॒म॒हि॒। धियः॑। यः। नः॒। प्र॒चो॒दया॒दिति॑ प्रऽचो॒दया॑त्॥९ ॥

Mantra without Swara
तत्सवितुर्वरेण्यम्भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयत् ॥

तत्। सवितुः। वरेण्यम्। भर्गः। देवस्य। धीमहि। धियः। यः। नः। प्रचोदयादिति प्रऽचोदयात्॥९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तत्) (सवितुः) सकलजगदुत्पादकस्य (वरेण्यम्) वरेण्यं वर्त्तुमर्हमत्युत्तमम् (भर्गः) सर्वदोषप्रदाहकं तेजोमयं शुद्धम् (देवस्य) स्वप्रकाशस्वरूपस्य सर्वैः कमनीयस्य सर्वसुखप्रदस्य (धीमहि) दधीमहि (धियः) प्रज्ञाः (यः) परमात्मा (नः) अस्माकम् (प्रचोदयात्)॥९॥
Essence
सर्वैर्मनुष्यैः सच्चिदानन्दस्वरूपं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वान्तर्यामिणं परमात्मानं विहायैतस्य स्थानेऽन्यस्य कस्यचित् पदार्थस्योपासनास्थापनं कदाचिन्नैव कार्य्यम्। कस्मै प्रयोजनाय? योऽस्माभिरुपासितः सन्नस्माकं बुद्धीरधर्माचरणान् निवर्त्य धर्माचरणे प्रेरयेत्, येन शुद्धाः सन्तो वयं तं परमात्मानं प्राप्यैहिकपारमार्थिके सुखे भुञ्जीमहीत्यस्मै॥९॥
Subject
अथेश्वरविषयमाह॥
Anvaya
हे मनुष्याः! सवितुर्देवस्य यद्वरेण्यं भर्गो वयं धीमहि तदेव यूयं धरत, यो नः सर्वेषां धियः प्रचोदयात् सोऽन्तर्यामी सर्वैरुपासनीयः॥९॥