Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 22 / Mantra 16

34 Mantra
22/16
Devata- अग्निर्देवता Rishi- प्रजापतिर्ऋषिः Chhand- निचृदगायत्री Swara- षड्जः
Mantra with Swara
स ह॑व्य॒वाडम॑र्त्यऽउ॒शिग्दू॒तश्चनो॑हितः।अ॒ग्निर्धि॒या समृ॑ण्वति॥१६॥

सः। ह॒व्य॒वाडिति॑ हव्य॒ऽवाट्। अम॑र्त्यः। उ॒शिक्। दू॒तः। चनो॑हित॒ इति चनः॑ऽहितः। अ॒ग्निः। धि॒या। सम्। ऋ॒ण्व॒ति॒ ॥१६ ॥

Mantra without Swara
स हव्यवाडमर्त्यऽउशिग्दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥

सः। हव्यवाडिति हव्यऽवाट्। अमर्त्यः। उशिक्। दूतः। चनोहित इति चनःऽहितः। अग्निः। धिया। सम्। ऋण्वति॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सः) (हव्यवाट्) यो हव्यं वहति देशान्तरं प्रापयति सः (अमर्त्यः) मृत्युधर्मरहितः (उशिक्) कान्तिमान् (दूतः) दूत इव वर्त्तमानः (चनोहितः) यश्चनांसि अन्नानि हिनोति प्रापयति सः (अग्निः) पावकः (धिया) कर्मणा (सम्) (ऋण्वति) प्राप्नोति॥१६॥
Essence
यथा कार्यार्थं प्रेषितो दूतः कार्यसाधको भवति तथा सम्प्रयोजितोऽग्निः सुखकार्य्यसिद्धिकरो भवति॥१६॥
Subject
पुनरग्निः कीदृशोऽस्तीत्याह॥
Anvaya
हे मनुष्याः! योऽमर्त्यो हव्यवाडुशिग्दूतश्चनोहितोऽग्निरस्ति स धिया समृण्वति॥१६॥