Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 59

61 Mantra
21/59
Devata- अग्न्यादयो देवताः Rishi- स्वस्त्यात्रेय ऋषिः Chhand- अष्टिः Swara- मध्यमः
Mantra with Swara
अ॒ग्निम॒द्य होता॑रमवृणीता॒यं यज॑मानः॒ पच॒न् पक्तीः॒ पच॑न् पुरो॒डाशा॑न् ब॒ध्नन्न॒श्विभ्यां॒ छाग॒ꣳ सर॑स्वत्यै मे॒षमिन्द्रा॑यऽऋष॒भꣳ सु॒न्वन्न॒श्विभ्या॒ सर॑स्वत्या॒ऽइन्द्रा॑य सु॒त्राम्णे॑ सुरासो॒मान्॥५९॥

अ॒ग्निम्। अ॒द्य। होता॑रम्। अ॒वृणी॒त॒। अ॒यम्। यज॑मानः। पच॑न्। पक्तीः॑। पच॑न्। पु॒रो॒डाशा॑न्। ब॒ध्नन्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। छाग॑म्। सर॑स्वत्यै। मे॒षम्। इन्द्रा॑य। ऋ॒ष॒भम्। सु॒न्वन्। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। सर॑स्वत्यै। इन्द्रा॑य। सु॒त्राम्ण॒ इति सु॒ऽत्राम्णे॑। सु॒रा॒सो॒मानिति॑ सुराऽसो॒मान् ॥५९ ॥

Mantra without Swara
अग्निमद्य होतारमवृणीतायँयजमानः पचन्पक्तीः पचन्पुरोडाशान्बध्नन्नश्विभ्याञ्छागँ सरस्वत्यै मेषमिन्द्रायऽऋषभँ सुन्वन्नश्विभ्याँ सरस्वत्याऽइन्द्राय सुत्राम्णे सुरासोमान् ॥

अग्निम्। अद्य। होतारम्। अवृणीत। अयम्। यजमानः। पचन्। पक्तीः। पचन्। पुरोडाशान्। बध्नन्। अश्विभ्यामित्यश्विऽभ्याम्। छागम्। सरस्वत्यै। मेषम्। इन्द्राय। ऋषभम्। सुन्वन्। अश्विभ्यामित्यश्विऽभ्याम्। सरस्वत्यै। इन्द्राय। सुत्राम्ण इति सुऽत्राम्णे। सुरासोमानिति सुराऽसोमान्॥५९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अग्निम्) पावकम् (अद्य) इदानीम् (होतारम्) सुखानां दातारम् (अवृणीत) वृणोति (अयम्) (यजमानः) (पचन्) (पक्तीः) (पचन्) (पुरोडाशान्) पाकविशेषान् (बध्नन्) बध्नन्ति (अश्विभ्याम्) प्राणापानाभ्याम् (छागम्) (सरस्वत्यै) विज्ञानयुक्तायै वाचे (मेषम्) अविम् (इन्द्राय) परमैश्वर्य्याय (ऋषभम्) वृषभम् (सुन्वन्) सुनुयुः (अश्विभ्याम्) (सरस्वत्यै) (इन्द्राय) राज्ञे (सुत्राम्णे) (सुरासोमान्) सुरया रसेन युक्तान् सोमान् पदार्थान्॥५९॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्याः! यथा संगन्तारो वैद्या अपानार्थं छागदुग्धं वाग्वृद्ध्यर्थमविपय ऐश्वर्य्याय गौः पयो रोगनिवारणायौषधिरसांश्च संपाद्य सुसंस्कृतान्यन्नानि भुक्त्वा बलवन्तो भूत्वा दुष्टान् शत्रून् बध्नन्ति ते परमैश्वर्यं लभन्ते॥५९।
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथाऽयं पक्तीः पचन् पुरोडाशान् पचन् यजमानो होतरमग्निमवृणीत यथाऽश्विभ्यां छागं सरस्वत्यै मेषमिन्द्रायर्षभं बध्नन्नश्विभ्यां सरस्वत्यै सुत्राम्ण इन्द्राय सुरासोमानसुन्वँस्तथा यूयमद्य कुरुत॥५९॥