Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 5

61 Mantra
21/5
Devata- आदित्या देवताः Rishi- वामदेव ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
म॒हीमू॒ षु मा॒तर॑ꣳ सुव्र॒ताना॑मृ॒तस्य॒ पत्नी॒मव॑से हुवेम।तु॒वि॒क्ष॒त्राम॒जर॑न्तीमुरू॒ची सु॒शर्मा॑ण॒मदितिꣳ सु॒प्रणी॑तिम्॥५॥

म॒हीम्। ऊँ॒ऽइत्यूँ॑। सु। मा॒तर॑म्। सु॒व्र॒ताना॑म्। ऋ॒तस्य॑। पत्नी॑म्। अव॑से। हु॒वे॒म॒। तु॒वि॒क्ष॒त्रामिति॑ तुविऽक्ष॒त्राम्। अ॒जर॑न्तीम्। उ॒रू॒चीम्। सु॒शर्मा॑ण॒मिति॑ सु॒ऽशर्मा॑णम्। अदि॑तिम्। सु॒प्रणी॑तिम्। सु॒प्रनी॑ति॒मिति॑ सु॒ऽप्रनी॑तिम् ॥५ ॥

Mantra without Swara
महीमू षु मातरँ सुव्रतानामृतस्य पत्नीमवसे हुवेम । तुविक्षत्रामजरन्तीमुरूचीँ सुशर्माणमदितिँ सुप्रणीतिम् ॥

महीम्। ऊँऽइत्यूँ। सु। मातरम्। सुव्रतानाम्। ऋतस्य। पत्नीम्। अवसे। हुवेम। तुविक्षत्रामिति तुविऽक्षत्राम्। अजरन्तीम्। उरूचीम्। सुशर्माणमिति सुऽशर्माणम्। अदितिम्। सुप्रणीतिम्। सुप्रनीतिमिति सुऽप्रनीतिम्॥५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(महीम्) भूमिम् (उ) उत्तमे (सु) शोभने (मातरम्) मातरमिव वर्त्तमानाम् (सुव्रतानाम्) शोभनानि व्रतानि सत्याचरणानि येषां तेषाम् (ऋतस्य) प्राप्तसत्यस्य (पत्नीम्) स्त्रीवद्वर्त्तमानाम् (अवसे) रक्षणाद्याय (हुवेम) आदद्याम (तुविक्षत्राम्) तुविर्बहु क्षत्रं धनं यस्यां ताम् (अजरन्तीम्) वयोहानिरहिताम् (उरूचीम्) या उरूणि बहून्यञ्चति प्राप्नोति ताम् (सुशर्माणम्) शोभनानि शर्माणि गृहाणि यस्यास्ताम् (अदितिम्) अखण्डिताम् (सुप्रणीतिम्) शोभनाः प्रकृष्टा नीतयो यस्यां ताम्॥५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा माताऽपत्यानि पतिव्रता पतिं च पालयति तथेयं भूमिः सर्वान् रक्षति॥५॥
Subject
अथ पृथिव्या विषयमाह॥
Anvaya
हे मनुष्याः! यथा वयं मातरमिव सुव्रतानामृतस्य पत्नीं तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणं सुप्रणीतिमु महीमदितिमवसे सुहुवेम तथा यूयमपि गृह्णीत॥५॥