Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 44

61 Mantra
21/44
Devata- विद्वांसो देवता Rishi- स्वस्त्यात्रेय ऋषिः Chhand- याजुषि त्रिष्टुप्, कृति Swara- धैवतः, षड्जः
Mantra with Swara
होता॑ यक्ष॒त् सर॑स्वतीं॑ मे॒षस्य॑ ह॒विष॒ऽआव॑यद॒द्य म॑ध्य॒तो मेदः॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौरु॑षेय्या गृ॒भो घस॑न्नू॒नं घा॒सेऽअ॑ज्राणां॒ यव॑सप्रथमाना सु॒मत्क्ष॑राणा शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसनानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒तऽउ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वꣳ सर॑स्वती जु॒षता॑ ह॒विर्होत॒र्यज॑॥४४॥

होता॑। य॒क्ष॒त्। सर॑स्वतीम्। मे॒षस्य॑। ह॒विषः॑। आ। अ॒व॒य॒त्। अ॒द्य। म॒ध्य॒तः। मेदः॑। उद्भृ॑त॒मित्युत्ऽभृ॑तम्। पु॒रा। द्वेषो॑भ्य॒ इति॒ द्वेषः॑ऽभ्यः। पु॒रा। पौरु॑षेय्याः। गृ॒भः। घस॑त्। नू॒नम्। घा॒सेऽअ॑ज्राणा॒मिति॑ घा॒सेऽअ॑ज्राणाम्। यव॑सप्रथमाना॒मिति॒ यव॑सऽप्रथमानाम्। सु॒मत्क्ष॑राणा॒मिति॑ सु॒मत्ऽक्ष॑राणाम्। श॒त॒रु॒द्रिया॑णा॒मिति॑ शतऽरु॒द्रिया॑णाम्। अ॒ग्नि॒ष्वा॒त्ताना॑म्। अ॒ग्नि॒स्वा॒त्ताना॒मित्य॑ग्निऽस्वा॒त्ताना॑म्। पीवो॑पवसनाना॒मिति॒ पीवः॑ऽउपवसनानाम्। पा॒र्श्व॒तः श्रो॒णि॒तः। शि॒ता॒म॒तः। उ॒त्सा॒द॒त इत्यु॑त्ऽसाद॒तः। अङ्गा॑दङ्गा॒दित्यङ्गा॑त्ऽअङ्गात्। अव॑त्तानाम्। कर॑त्। ए॒वम्। सर॑स्वती। जु॒षता॑म्। ह॒विः। होतः॑। यज॑ ॥४४ ॥

Mantra without Swara
होता यक्षत्सरस्वतीम्मेषस्य हविषऽआवयदद्य मध्यतो मेदऽउद्भृतम्पुरा द्वेषोभ्यः पुरा पौरुषेय्या गृभो घसन्नूनङ्घासेऽअज्राणाँयवसप्रथमानाँ सुमत्क्षराणाँ शतरुद्रियाणामग्निष्वात्तानाम्पीवोपवसानाम्पार्श्वतः श्रोणितः शितामतऽउत्सादतोङ्गादङ्गादवत्तानाङ्करदेवँ सरस्वती जुषताँ हविर्हातर्यज ॥

होता। यक्षत्। सरस्वतीम्। मेषस्य। हविषः। आ। अवयत्। अद्य। मध्यतः। मेदः। उद्भृतमित्युत्ऽभृतम्। पुरा। द्वेषोभ्य इति द्वेषःऽभ्यः। पुरा। पौरुषेय्याः। गृभः। घसत्। नूनम्। घासेऽअज्राणामिति घासेऽअज्राणाम्। यवसप्रथमानामिति यवसऽप्रथमानाम्। सुमत्क्षराणामिति सुमत्ऽक्षराणाम्। शतरुद्रियाणामिति शतऽरुद्रियाणाम्। अग्निष्वात्तानाम्। अग्निस्वात्तानामित्यग्निऽस्वात्तानाम्। पीवोपवसनानामिति पीवःऽउपवसनानाम्। पार्श्वतः श्रोणितः। शितामतः। उत्सादत इत्युत्ऽसादतः। अङ्गादङ्गादित्यङ्गात्ऽअङ्गात्। अवत्तानाम्। करत्। एवम्। सरस्वती। जुषताम्। हविः। होतः। यज॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) दाता (यक्षत्) (सरस्वतीम्) वाचम् (मेषस्य) उपदिष्टस्य (हविषः) दातुमर्हस्य (आ) (अवयत्) वेति प्राप्नोति (अद्य) (मध्यतः) मध्ये भवात् (मेदः) स्निग्धम् (उद्भृतम्) उद्धृतम् (पुरा) (द्वेषोभ्यः) शत्रुभ्यः (पुरा) (पौरुषेय्याः) पुरुषसम्बन्धिन्याः (गृभः) ग्रहीतुं योग्यायाः (घसत्) (नूनम्) निश्चितम् (घासेअज्राणाम्) भोजने कमनीयानाम् (यवसप्रथमानाम्) मिश्रितामिश्रिताद्यानाम् (सुमत्क्षराणाम्) श्रेष्ठानन्दवर्षकराणाम् (शतरुद्रियाणाम्) बहूनां मध्ये विद्वदधिष्ठातॄणाम् (अग्निष्वात्तानाम्) सुसंगृहीताग्निविद्यानाम् (पीवोपवसनानाम्) स्थूलवस्त्रधारिणाम् (पार्श्वतः) समीपात् (श्रोणितः) कटिप्रदेशात् (शितामतः) तीक्ष्णस्वभावात् (उत्सादतः) गात्रोत्सादनात् (अङ्गादङ्गात्) (अवत्तानाम्) गृहीतानाम् (करत्) कुर्यात् (एवम्) अमुना प्रकारेण (सरस्वती) विदुषी स्त्री (जुषताम्) (हविः) आदातव्यम् (होतः) आदातः (यज)॥४४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः सज्जनसंगेन दुष्टान् निवार्य युक्ताहारविहाराभ्यामारोग्यं प्राप्य धर्मं सेवन्ते, ते कृतकृत्या जायन्ते॥४४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होताऽद्य मेषस्य शितामतो हविषो मध्यतो यन्मेद उद्भृतं तत् सरस्वतीं चावयत् यक्षत् द्वेषोभ्यः पुरा गृभः पौरुषेय्याः पुरा नूनं घसद् घासेअज्राणां यवसप्रथमानां सुमत्क्षराणां पीवोपवसनानामग्निष्वात्तानां शतरुद्रियाणां पार्श्वतः श्रोणित उत्सादतोऽङ्गादङ्गादवत्तानां सकाशाद् विद्यां करदेवमेतत् सरस्वती जुषतां तथा त्वं च हविर्यज॥४४॥