Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 42

61 Mantra
21/42
Devata- होत्रादयो देवताः Rishi- स्वस्त्यात्रेय ऋषिः Chhand- आर्च्युष्णिक् Swara- ऋषभः
Mantra with Swara
होता॑ यक्षद॒श्विनौ॒ सर॑स्वती॒मिन्द्र॑ꣳ सु॒त्रामा॑णमि॒मे सोमाः॑ सु॒रामा॑ण॒श्छागै॒र्न मे॒षैर्ऋ॑ष॒भैः सु॒ताः शष्पै॒र्न तोक्म॑भिर्ला॒जैर्मह॑स्वन्तो॒ मदा॒ मास॑रेण॒ परि॑ष्कृताः शु॒क्राः पय॑स्वन्तो॒ऽमृताः॒ प्र॑स्थिता वो मधु॒श्चुत॒स्तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा जु॒षन्ता॑ सो॒म्यं मधु॒ पिब॑न्तु॒ मद॑न्तु॒ व्यन्तु॒ होत॒र्यज॑॥४२॥

होता॑। य॒क्ष॒त्। अ॒श्विनौ॑। सर॑स्वतीम्। इन्द्र॑म्। सु॒त्रामा॑णमिति॑ सु॒ऽत्रामा॑णम्। इ॒मे। सोमाः॑। सु॒रामा॑णः। छागैः॑। न। मे॒षैः। ऋ॒ष॒भैः। सु॒ताः। शष्पैः॑। न। तोक्म॑भिरिति॒ तोक्म॑ऽभिः। ला॒जैः। मह॑स्वन्तः। मदाः॑। मास॑रेण। परि॑ष्कृताः। शु॒क्राः। पय॑स्वन्तः। अ॒मृताः॑। प्र॑स्थिता॒ इति॒ प्रऽस्थि॑ताः। वः॒। म॒धु॒श्चुत॒ इति॑ मधु॒ऽश्चुतः॑। तान्। अ॒श्विना॑। सर॑स्वती। इन्द्रः॑। सु॒त्रामा॑। वृ॒त्र॒हा। जु॒षन्ता॑म्। सो॒म्यम्। मधु॑। पिब॑न्तु। मद॑न्तु। व्यन्तु॑। होतः॑। यज॑ ॥४२ ॥

Mantra without Swara
होता यक्षदश्विनौ सरस्वतीमिन्द्रँ सुत्रामाणमिमे सोमाः सुरामाणश्छागैर्न मेषैरृषभैः सुताः शष्पैर्ब तोक्मभिर्लाजैर्महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तोमृताः प्रस्थिता वो मधुश्चुतस्तानश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा जुषन्ताँ सोम्यम्मधु पिबन्तु व्यन्तु होतर्यज ॥

होता। यक्षत्। अश्विनौ। सरस्वतीम्। इन्द्रम्। सुत्रामाणमिति सुऽत्रामाणम्। इमे। सोमाः। सुरामाणः। छागैः। न। मेषैः। ऋषभैः। सुताः। शष्पैः। न। तोक्मभिरिति तोक्मऽभिः। लाजैः। महस्वन्तः। मदाः। मासरेण। परिष्कृताः। शुक्राः। पयस्वन्तः। अमृताः। प्रस्थिता इति प्रऽस्थिताः। वः। मधुश्चुत इति मधुऽश्चुतः। तान्। अश्विना। सरस्वती। इन्द्रः। सुत्रामा। वृत्रहा। जुषन्ताम्। सोम्यम्। मधु। पिबन्तु। मदन्तु। व्यन्तु। होतः। यज॥४२॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) दाता (यक्षत्) यजेत् (अश्विनौ) अध्यापकोपदेष्टारौ (सरस्वतीम्) विज्ञानवतीं वाचम् (इन्द्रम्) परमैश्वर्य्ययुक्तराजानम् (सुत्रामाणम्) प्रजायाः सुष्ठु रक्षकम् (इमे) (सोमाः) ऐश्वर्य्यवन्तः सभासदः (सुरामाणः) सुष्ठु दातारः (छागैः) (न) इव (मेषैः) (ऋषभैः) (सुताः) अभिषेकक्रियाजाताः (शष्पैः) हिंसकैः। अत्रौणादिको बाहुलकात् कर्त्तरि यत्। (न) इव (तोक्मभिः) अपत्यैः (लाजैः) भर्जितैः (महस्वन्तः) महांसि पूजनानि सत्करणानि विद्यन्ते येषान्ते (मदाः) आनन्दाः (मासरेण) ओदनेन (परिष्कृताः) परितः शोभिताः। संपर्य्युपेभ्यः करोतौ भूषण इति सुट्। (शुक्राः) शुद्धाः (पयस्वन्तः) प्रशस्तजलदुग्धादियुक्ताः (अमृताः) अमृतात्मैकरसाः (प्रस्थिताः) कृतप्रस्थानाः (वः) युष्मभ्यम् (मधुश्चुतः) मधुरादिगुणा विश्लिष्यन्ते येभ्यः (तान्) (अश्विना) सुसत्कृतौ पुरुषौ (सरस्वती) प्रशस्तविद्यायुक्ता स्त्री (इन्द्रः) (सुत्रामा) सुष्ठु रक्षकः (वृत्रहा) मेघस्य हन्ता सूर्य्य इव (जुषन्ताम्) सेवन्ताम् (सोम्यम्) सोमार्हम् (मधु) मधुररसम् (पिबन्तु) (मदन्तु) आनन्दन्तु (व्यन्तु) व्याप्नुवन्तु (होतः) (यज)॥४२॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये सृष्टिपदार्थविद्यां सत्यां वाचं सुरक्षकं राजानं च प्राप्त पशूनां पयआदिभिः पुष्यन्ति ते सुरसान् सुसंस्कृताादीन् सुपरीक्षितान् भोगान् युक्त्या भुक्त्वा रसान् पीत्वा धर्मार्थकाममोक्षार्थे प्रयतन्ते ते सदा सुखिनो भवन्ति॥४२॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होताऽश्विनौ सरस्वतीं सुत्रामाणमिन्द्रं यक्षद्य इमे सुरामाणः सोमाः सुताश्छागैर्न मेषैर्ऋषभैः शष्पैर्न तोक्मभिर्लाजैर्महस्वन्तो मदा मासरेण परिष्कृताः शुक्राः पयस्वन्तोऽमृता मधुश्चुतः प्रस्थिता वो निर्मितास्तान् यक्षद्यथाऽश्विना सरस्वती सुत्रामा वृत्रहेन्द्रश्च सोम्यं मधु जुषन्तां पिबन्तु मदन्तु सकला विद्या व्यन्तु तथा यज॥४२॥