Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 3

61 Mantra
21/3
Devata- अग्निवरुणौ देवते Rishi- वामदेव ऋषिः Chhand- स्वराट् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
त्वं नो॑ऽअग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडो॒ऽअव॑ यासिसीष्ठाः। यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑सि॒ प्र मु॑मुग्ध्य॒स्मत्॥३॥

त्वम्। नः॒। अ॒ग्ने॒। वरु॑णस्य। वि॒द्वान्। दे॒वस्य॑। हेडः॑। अव॑। या॒सि॒सी॒ष्ठाः॒। यजि॑ष्ठः। वह्नि॑तम इति वह्नि॑ऽतमः। शोशु॑चानः। विश्वा॑। द्वेषा॑सि। प्र। मु॒मु॒ग्धि॒। अ॒स्मत्॥३ ॥

Mantra without Swara
त्वन्नोऽअग्ने वरुणस्य विद्वान्देवस्य हेडोऽअवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् ॥

त्वम्। नः। अग्ने। वरुणस्य। विद्वान्। देवस्य। हेडः। अव। यासिसीष्ठाः। यजिष्ठः। वह्नितम इति वह्निऽतमः। शोशुचानः। विश्वा। द्वेषासि। प्र। मुमुग्धि। अस्मत्॥३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वम्) (नः) अस्माकम् (अग्ने) पावकवत्प्रकाशमान (वरुणस्य) श्रेष्ठस्य (विद्वान्) विद्यायुक्तः (देवस्य) विदुषः (हेडः) अनादरः (अव) निषेधे (यासिसीष्ठाः) यायाः प्राप्नुयाः (यजिष्ठः) अतिशयेन यष्टा (वह्नितमः) अतिशयेन वोढा (शोशुचानः) शुद्धः शोधयन् सन् (विश्वा) सर्वाणि (द्वेषांसि) द्वेषादियुक्तानि कर्माणि (प्र) (मुमुग्धि) प्रमोचय (अस्मत्) अस्माकं सकाशात्॥३॥
Essence
कोऽपि मनुष्यो विदुषामनादरं कोऽपि विद्वान् विद्यार्थिनामसत्कारं च न कुर्यात्, सर्वे मिलित्वेर्ष्याक्रोधादिदोषांस्त्यक्त्वा सर्वेषां सखायो भवेयुः॥३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अग्ने यजिष्ठो वह्नितमः शोशुचानो विद्वांस्त्वं वरुणस्य देवस्य यो हेडस्तमव यासिसीष्ठा मा कुर्या। हे अग्ने! त्वं यो नोऽज्ञमाकं हेडो भवेत्तं मा स्वीकुर्या॥ हे शिक्षक! त्वमस्मद्विश्वा द्वेषांसि प्रमुमुग्धि॥३॥