Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 29

61 Mantra
21/29
Devata- अग्न्यश्वीन्द्रसरस्वत्याद्या लिङ्गोक्ता देवताः Rishi- स्वस्त्यात्रेय ऋषिः Chhand- निचृदष्टिः Swara- मध्यमः
Mantra with Swara
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ꣳ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमैः॒ कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ऽइन्द्रि॒यं पयः॒ सोमः॑ परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑॥२९॥

होता॑। य॒क्ष॒त्। स॒मिधेति॑ स॒म्ऽइधा॑। अ॒ग्निम्। इ॒डः। प॒दे। अ॒श्विना॑। इन्द्र॑म्। सर॑स्वतीम्। अ॒जः। धू॒म्रः। न। गो॒धूमैः॑। कुव॑लैः। भे॒ष॒जम्। मधु॑। शष्पैः॑। न। तेजः॑। इ॒न्द्रि॒यम्। पयः॑। सोमः॑। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। घृ॒तम्। मधु॑। व्यन्तु॑। आज्यस्य॑। होतः॑। यज॑ ॥२९ ॥

Mantra without Swara
होता यक्षत्समिधाग्निमिडस्पदे श्विनेन्द्रँ सरस्वतीमजो धूम्रो न गोधूमैः कुवलैर्भैषजम्मधु शष्पैर्न तेजऽइन्द्रियम्पयः सोमः परिस्रुता घृतम्मधु व्यन्त्वाज्यस्य होतर्यज ॥

होता। यक्षत्। समिधेति सम्ऽइधा। अग्निम्। इडः। पदे। अश्विना। इन्द्रम्। सरस्वतीम्। अजः। धूम्रः। न। गोधूमैः। कुवलैः। भेषजम्। मधु। शष्पैः। न। तेजः। इन्द्रियम्। पयः। सोमः। परिस्रुतेति परिऽस्रुता। घृतम्। मधु। व्यन्तु। आज्यस्य। होतः। यज॥२९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(होता) दाता (यक्षत्) यजेत् संगच्छेत् (समिधा) इन्धनादिसाधनैः (अग्निम्) पावकम् (इ[स्पदे) पृथिव्यन्नस्थाने (अश्विना) सूर्याचन्द्रमसौ (इन्द्रम्) ऐश्वर्य्यं जीवं वा (सरस्वतीम्) सुशिक्षितां वाचम् (अजः) प्राप्तव्यो मेषः (धूम्रः) धूम्रवर्णः (न) इव (गोधूमैः) (कुवलैः) कुत्सितं बलं यैस्तैर्बदरैः। अत्र कुशब्द इत्यस्माद् धातोरौणादिकः कलन् प्रत्ययः (भेषजम्) औषधम् (मधु) मधुरमुदकम् (शष्पैः) हिंसनैः (न) इव (तेजः) प्रागल्भ्यम् (इन्द्रियम्) धनम् (पयः) दुग्धमन्नं वा (सोमः) ओषधिगणः (परिस्रुता) परितः सर्वतः स्रुता प्राप्तेन रसेन (घृतम्) आज्यम् (मधु) क्षौद्रम् (व्यन्तु) प्राप्नुवन्तु (आज्यस्य) घृतम्। अत्र कर्मणि षष्ठी (होतः) (यज)॥२९॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। येऽस्य संसारस्य मध्ये साधनोपसाधनैः पृथिव्यादिविद्यां जानन्ति, ते सर्व उत्तमान् पदार्थान् प्राप्नुवन्ति॥२९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे होतर्यथा होतेडस्पदे समिधाग्निमश्विनेन्द्रं सरस्वतीमजो धूम्रो न कश्चिज्जीवो गोधूमैः कुवलैर्भेषजं यक्षत् तथा शष्पैर्न यानि तेजो मध्विन्द्रियं पयः परिस्रुता स सोमो घृतं मधु व्यन्तु, तैः सह वर्त्तमानमाज्यस्य यज॥२९॥