Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 23

61 Mantra
21/23
Devata- रुद्रा देवताः Rishi- स्वस्त्यात्रेय ऋषिः Chhand- भुरिगनुष्टुप् Swara- गान्धारः
Mantra with Swara
व॒स॒न्तेन॑ऽऋ॒तुना॑ दे॒वा वस॑वस्त्रि॒वृता॑ स्तु॒ताः।र॒थ॒न्त॒रेण॒ तेज॑सा ह॒विरिन्द्रे॒ वयो॑ दधुः॥२३॥

व॒स॒न्तेन॑। ऋ॒तुना॑। दे॒वाः। वस॑वः। त्रि॒वृतेति॑ त्रि॒ऽवृता॑। स्तु॒ताः। र॒थ॒न्त॒रेणेति॑ रथम्ऽत॒रेण॑। तेज॑सा। ह॒विः। इन्द्रे॑। वयः॑। द॒धुः॒ ॥२३ ॥

Mantra without Swara
वसन्तेनऽऋतुना देवा वस्ववस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥

वसन्तेन। ऋतुना। देवाः। वसवः। त्रिवृतेति त्रिऽवृता। स्तुताः। रथन्तरेणेति रथम्ऽतरेण। तेजसा। हविः। इन्द्रे। वयः। दधुः॥२३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वसन्तेन) वसन्ति सुखेन यस्मिंस्तेन (ऋतुना) प्राप्तव्येन (देवाः) दिव्याः (वसवः) पृथिव्यादयोऽष्टौ प्राथमकल्पिका विद्वांसो वा (त्रिवृता) यस्त्रिषु कालेषु वर्त्तते तेन (स्तुताः) प्राप्तस्तुतयः (रथन्तरेण) यत्र रथेन तरति तत् तेन (तेजसा) तीक्ष्णस्वरूपेण (हविः) दातव्यं वस्तु (इन्द्रे) सूर्य्यप्रकाशे (वयः) आयुर्वर्धकम् (दधुः)॥२३॥
Essence
ये मनुष्या वासहेतून् दिव्यान् पृथिव्यादीन् विदुषो वा वसन्ते संगच्छेरँस्ते वासन्तिकं सुखं प्राप्नुयुः॥२३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! ये वसवो देवा स्तुतास्त्रिवृता वसन्तेनर्तुना सह वर्त्तमाना रथन्तरेण तेजसेन्द्रे हविर्वयो दधुस्तान् स्वरूपतो विज्ञाय संगच्छध्वम्॥२३॥