Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 16

61 Mantra
21/16
Devata- विद्वांसो देवता Rishi- स्वस्त्यात्रेय ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
दुरो॑ दे॒वीर्दिशो॑ म॒हीर्ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑।प॒ङ्क्तिश्छन्द॑ऽइ॒हेन्द्रि॒यं तु॑र्य्य॒वाड् गौर्वयो॑ दधुः॥१६॥

दुरः॑। दे॒वीः। दिशः॑। म॒हीः। ब्र॒ह्मा। दे॒वः। बृह॒स्पतिः॑। प॒ङ्क्तिः। छन्दः॑। इ॒ह। इ॒न्द्रि॒यम्। तु॒र्य्य॒वाडिति॑ तर्य्य॒ऽवाट्। गौः। वयः॑। द॒धुः॒ ॥१६ ॥

Mantra without Swara
दुरो देवीर्दिशो महीर्ब्रह्मा देवो बृहस्पतिः । पङ्क्तिश्छन्द इहेन्द्रियन्तुर्यवाड्गौर्वयो दधुः ॥

दुरः। देवीः। दिशः। महीः। ब्रह्मा। देवः। बृहस्पतिः। पङ्क्तिः। छन्दः। इह। इन्द्रियम्। तुर्य्यवाडिति तर्य्यऽवाद्। गौः। वयः। दधुः॥१६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(दुरः) द्वाराणि (देवीः) देदीप्यमानां (दिशः) (महीः) महत्यः (ब्रह्मा) (देवः) देदीप्यमानः (बृहस्पतिः) बृहतां पालकः सूर्य्यः (पङ्क्तिः) (छन्दः) (इह) (इन्द्रियम्) धनम् (तुर्य्यवाट्) यस्तुर्य्यं चतुर्थं वहति प्राप्नोति सः (गौः) धेनुः (वयः) जीवनम् (दधुः) दधीरन्॥१६॥
Essence
नहि कश्चिदप्यन्तरिक्षस्थवाय्वादिभिर्विना जीवितुं शक्नोति॥१६॥
Subject
अथ वायुप्रभृतिपदार्थप्रयोजनमुपदिश्यते॥
Anvaya
हे मनुष्याः! यथेह देवीर्महीर्दुरोदिशो ब्रह्मा देवो बृहस्पतिः पङ्क्तिश्छन्द इन्द्रियं तुर्य्यवाड् गौर्वयश्च दधुस्तथा यूयमपि धरत॥१६॥