Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 14

61 Mantra
21/14
Devata- विद्वांसो देवता Rishi- स्वस्त्यात्रेय ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
इडा॑भिर॒ग्निरीड्यः॒ सोमो॑ दे॒वोऽअम॑र्त्यः।अ॒नु॒ष्टुप् छन्द॑ऽइन्द्रि॒यं पञ्चा॑वि॒गौर्वयो॑ दधुः॥१४॥

इडा॑भिः। अ॒ग्निः। ईड्यः॑। सोमः॑। दे॒वः। अम॑र्त्यः। अ॒नु॒ष्टुप्। अ॒नु॒स्तुबित्य॑नुऽस्तुप्। छन्दः॑। इ॒न्द्रि॒यम्। पञ्चा॑वि॒रिति॒ पञ्च॑ऽअविः। गौः। वयः॑। द॒धुः॒ ॥१४ ॥

Mantra without Swara
इडाभिरग्निरीड्यः सोमो देवो अमर्त्यः । अनुष्टुप्छन्द इन्द्रियम्पञ्चाविर्गौर्वयो दधुः ॥

इडाभिः। अग्निः। ईड्यः। सोमः। देवः। अमर्त्यः। अनुष्टुप्। अनुस्तुबित्यनुऽस्तुप्। छन्दः। इन्द्रियम्। पञ्चाविरिति पञ्चऽअविः। गौः। वयः। दधुः॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इडाभिः) (अग्निः) पावक इव (ईड्यः) स्तुत्योऽध्यन्वेषणीयः (सोमः) ऐश्वर्य्यवान् (देवः) दिव्यगुणः (अमर्त्यः) स्वस्वरूपेण मृत्युरहितः (अनुष्टुप्) (छन्दः) (इन्द्रियम्) ज्ञानादिव्यवहारसाधकम् (पञ्चाविः) यः पञ्चभिरव्यते रक्ष्यते सः (गौः) विद्यया स्तोतव्यः (वयः) तृप्तिम् (दधुः) दध्युः॥१४॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये धर्मेण विद्यैश्वर्ये प्राप्नुवन्ति, ते सर्वान् मनुष्यानेते प्रापयितुं शक्नुवन्ति॥१४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यथाऽग्निरमर्त्यः सोम ईड्यो देवः पञ्चाविर्गौर्विद्वानिडाभिरनुष्टुप् छन्द इन्द्रियं वयश्च दध्यात् तथैतत् सर्वे दधुः॥१४॥