Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 13

61 Mantra
21/13
Devata- विद्वांसो देवता Rishi- स्वस्त्यात्रेय ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
तनू॒नपा॒च्छुचि॑व्रतस्तनू॒पाश्च॒ सर॑स्वती।उ॒ष्णिहा॒ छन्द॑ऽइन्द्रि॒यं दि॑त्य॒वाड् गौर्वयो॑ दधुः॥१३॥

तनू॒नपा॒दिति॒ तनू॒ऽनपा॑त्। शुचि॑ऽव्रतः। त॒नू॒पा इति॑ तनू॒ऽपाः। च॒। सर॑स्वती। उ॒ष्णिहा॑। छन्दः॑। इ॒न्द्रि॒यम्। दि॒त्य॒वाडिति॑ दित्य॒ऽवाट्। गौः। वयः॑। द॒धुः॒ ॥१३ ॥

Mantra without Swara
तनूनपाच्छुचिव्रतस्तनूपाश्च सरस्वती । उष्णिहा छन्द इन्द्रियन्दित्यवाड्गौर्वयो दधुः ॥

तनूनपादिति तनूऽनपात्। शुचिऽव्रतः। तनूपा इति तनूऽपाः। च। सरस्वती। उष्णिहा। छन्दः। इन्द्रियम्। दित्यवाडिति दित्यऽवाट्। गौः। वयः। दधुः॥१३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तनूनपात्) यस्तनूं न पातयति सः (शुचिव्रतः) पवित्रधर्माचरणशीलः (तनूपाः) यस्तनूः पाति (च) (सरस्वती) वाणी (उष्णिहा) (छन्दः) (इन्द्रियम्) इन्द्रस्य जीवस्य लिङ्गम् (दित्यवाट्) दितये हितं वहति (गौः) स्तोता (वयः) कामनाम् (दधुः)॥१३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये पवित्राचरणा येषां वाणी विद्यासुशिक्षायुक्तास्ति, ते पूर्णं जीवनं धातुर्महन्ति॥१३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यथा शुचिव्रतस्तनूनपात् तनूपाः सरस्वती चोष्णिहा छन्द इन्द्रियं दधाति, यथा च दित्यवाड् गौर्वयो वर्धयति, तथैतस्सर्वं विद्वांसो दधुः॥१३॥