Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 11

61 Mantra
21/11
Devata- विद्वांसो देवता Rishi- आत्रेय ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्राऽअमृताऽऋतज्ञाः।अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑॥११॥

वाज॑वाज॒ऽइति॑ वाजे॑ऽवाजे। अ॒व॒त॒। वा॒जि॒नः॒। नः॒। धने॑षु। वि॒प्राः॒। अ॒मृ॒ताः॒। ऋ॒त॒ज्ञा॒ऽइत्यृ॒॑तज्ञाः। अ॒स्य। मध्वः॑। पि॒ब॒त॒। मा॒दय॑ध्वम्। तृ॒प्ताः। या॒त॒। प॒थिभि॒रिति॑ प॒थिऽभिः॑। दे॒व॒यानै॒रिति॑ देव॒ऽयानैः॑ ॥११ ॥

Mantra without Swara
वाजेवाजेवत वाजिनो नो धनेषु विप्राऽअमृताऽऋतज्ञाः । अस्य मध्वः पिबत मादयध्वन्तृप्ता यात पथिभिर्देवयानैः ॥

वाजवाजऽइति वाजेऽवाजे। अवत। वाजिनः। नः। धनेषु। विप्राः। अमृताः। ऋतज्ञाऽइत्यृतज्ञाः। अस्य। मध्वः। पिबत। मादयध्वम्। तृप्ताः। यात। पथिभिरिति पथिऽभिः। देवयानैरिति देवऽयानैः॥११॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वाजेवाजे) युद्धे युद्धे (अवत) रक्षत (वाजिनः) विज्ञानवन्तः (नः) अस्मान् (धनेषु) (विप्राः) मेधाविनः (अमृताः) आत्मस्वरूपेण नित्याः (ऋतज्ञाः) य ऋतं सत्यं जानन्ति ते (अस्य) (मध्वः) मधुरस्य रसस्य। अत्र कर्मणि षष्ठी (पिबत) (मादयध्वम्) आनन्दयत (तृप्ताः) प्रीताः (यात) गच्छत (पथिभिः) (देवयानैः) देवा विद्वांसो यान्ति येषु तैः॥११॥
Essence
यथा विद्वांसो विद्यादानोपदेशाभ्यां सर्वान् सुखयन्ति, तथैव राजपुरुषा रक्षाऽभयदानाभ्यां सर्वान् सुखयन्तु। धर्म्यमार्गेषु गच्छन्तोऽर्थकाममोक्षान् प्राप्नुवन्तु॥११॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे अमृता ऋतज्ञा वाजिनो विप्राः! यूयं वाजेवाजे धनेषु नोऽवतास्य मध्वः पिबत, तेन मादयध्वमनेन तृप्ताः सन्तो देवयानैः पथिभिर्यात॥११॥