Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 21 / Mantra 10

61 Mantra
21/10
Devata- ऋत्विजो देवताः Rishi- आत्रेय ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
शन्नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः।ज॒म्भय॒न्तोऽहिं॒ वृक॒ꣳ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः॥१०॥

शम्। नः॒। भ॒व॒न्तु॒। वा॒जिनः॑। हवे॑षु। दे॒वता॒तेति॑ दे॒वऽता॑ता। मि॒तद्र॑व॒ इति॑ मि॒तऽद्र॑वः। स्व॒र्का इति॑ सुऽअ॒र्काः। ज॒म्भय॑न्तः। अहि॑म्। वृक॑म्। रक्षा॑सि। सने॑मि। अ॒स्मत्। यु॒य॒व॒न्। अमी॑वाः ॥१० ॥

Mantra without Swara
शन्नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो हिँवृकँ रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥

शम्। नः। भवन्तु। वाजिनः। हवेषु। देवतातेति देवऽताता। मितद्रव इति मितऽद्रवः। स्वर्का इति सऽअर्काः। जम्भयन्तः। अहिम्। वृकम्। रक्षासि। सनेमि। अस्मत्। युयवन्। अमीवाः॥१०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(शम्) सुखकारकाः (नः) अस्मभ्यम् (भवन्तु) (वाजिनः) प्रशस्तविज्ञानयुक्ताः (हवेषु) दानाऽदानेषु (देवताता) देवता विद्वांस इव वर्त्तमानाः (मितद्रवः) ये मितं द्रवन्ति ते (स्वर्काः) सुष्ठ्वर्का अन्नानि वज्रो वा येषान्ते (जम्भयन्तः) विनाशयन्तः (अहिम्) मेघं सूर्य इव (वृकम्) स्तेनम् (रक्षांसि) दुष्टान् जीवान् (सनेमि) सनातनं पुराणम्। सनेमि इति पुराणनाम॥ निघं॰३।२७॥ (अस्मत्) (युयवन्) पृथक्कुर्वन्तु (अमीवाः) रोगान्॥१०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्योऽन्धकारं निवर्त्त्य सर्वान् सुखयति, तथा विद्वांसः प्राणिनां सर्वान् शरीरात्मरोगान् निवार्य्यानन्दयेयुः॥१०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे स्वर्का! मितद्रवो देवताता वाजिनो हवेषु विद्वांसो भवन्तोऽहिं सूर्य इव वृकं रक्षांसि च जम्भयन्तो नः सनेमि शं भवन्तु। अस्मदमीवा युयवन्॥१०॥