Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 81

90 Mantra
20/81
Devata- अश्विनौ देवते Rishi- गृत्समद ऋषिः Chhand- आर्च्युष्णिक् Swara- ऋषभः
Mantra with Swara
गोम॑दू॒ षु णा॑स॒त्याश्वा॑वद्यातमश्विना। व॒र्त्ती रु॑द्रा नृ॒पाय्य॑म्॥८१॥

गोम॒दिति॒ गोऽम॑त्। ऊँ॒ऽइत्यूँ॑। सु। ना॒स॒त्या॒। अश्वा॑वत्। अश्व॑व॒दिति॒ अश्व॑ऽवत्। या॒त॒म्। अ॒श्वि॒ना॒। व॒र्त्तिः। रु॒द्रा॒। नृ॒पाय्य॒मिति॑ नृ॒ऽपाय्य॑म् ॥८१ ॥

Mantra without Swara
गोमदू षु णासत्या अश्वावद्यातमश्विना । वर्ती रुद्रा नृपाय्यम् ॥

गोमदिति गोऽमत्। ऊँऽइत्यूँ। सु। नासत्या। अश्वावत्। अश्ववदिति अश्वऽवत्। यातम्। अश्विना। वर्त्तिः। रुद्रा। नृपाय्यमिति नृऽपाय्यम्॥८१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(गोमत्) गावो विद्यन्ते यस्मिंस्तत् (उ) वितर्के (सु) (नासत्या) सत्यव्यवहारयुक्तौ (अश्वावत्) प्रशस्ततुरङ्गयुक्तम्। अत्र मन्त्रे सोमाश्वेन्द्रिय॰ [अष्टा॰६.३.१३१] इति दीर्घः (यातम्) प्राप्नुतम् (अश्विना) विद्यावृद्धौ (वर्त्तिः) वर्त्तमानं मार्गम् (रुद्रा) दुष्टानां रोदयितारौ (नृपाय्यम्) नृणां पाय्यं मानम्॥८१॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। गोऽश्वहस्तिप्रभृतिभिः पालितैः पशुभिः स्वकीयमन्यदीयं च पालनं मनुष्यैः कार्य्यम्॥८१॥
Subject
अथ विद्वद्विषये पश्वादिभिः पालनाविषयमाह॥
Anvaya
हे नासत्या रुद्राश्विना यथा युवां गोमद्वर्त्तिरु अश्वावन्नृपाय्यं सुयातम्, तथा वयमपि प्राप्नुयाम॥८१॥