Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 76

90 Mantra
20/76
Devata- अश्विसरस्वतीन्द्रा देवता Rishi- विदर्भिर्ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
यु॒वꣳ सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा॑।वि॒पि॒पा॒नाः सर॑स्व॒तीन्द्रं॒ कर्म॑स्वावत॥७६॥

यु॒वम्। सु॒राम॑म्। अ॒श्वि॒ना॒। नमु॑चौ। आ॒सु॒रे। सचा॑। वि॒पि॒पा॒ना इति॑ विऽपिपा॒नाः। स॒र॒स्व॒ति। इन्द्र॑म्। कर्म्म॒स्विति॒ कर्म॑ऽसु। आ॒व॒त॒ ॥७६ ॥

Mantra without Swara
युवँ सुराममश्विना नमुचावासुरे सचा । विपिपानाः सरस्वतीन्द्रङ्कर्मस्वावत ॥

युवम्। सुरामम्। अश्विना। नमुचौ। आसुरे। सचा। विपिपाना इति विऽपिपानाः। सरस्वति। इन्द्रम्। कर्म्मस्विति कर्मऽसु। आवत॥७६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(युवम्) युवाम् (सुरामम्) सुष्ठु रम्यम् (अश्विना) रक्षादिकर्मव्यापिनौ (नमुचौ) प्रवाहेण नित्यस्वरूपे (आसुरे) असुरो मेघ एव तस्मिन् (सचा) समवेताः (विपिपानाः) विविधरक्षादिकर्त्तारः। अत्र व्यत्ययेन लुग्विषये श्लुरात्मनेपदं च बहुलं छन्दसीतीत्वम् (सरस्वति) या प्रशस्तविज्ञानयुक्ता प्रजा तत्सम्बुद्धौ (इन्द्रम्) परमैश्वर्यम् (कर्मसु) (आवत) पालयत॥७६॥
Essence
ये पुरुषार्थेन महदैश्वर्यं प्राप्य धनं सुरक्ष्याऽनन्दं भुञ्जते, ते सदैव वर्द्धन्ते॥७६॥
Subject
पुनः प्रकारान्तरेण विद्वद्विषयमाह॥
Anvaya
हे अश्विना! सचा युवं हे सरस्वती त्वं च यथा नमुचावासुरे कर्मसु सुराममिन्द्रमावत तथा विपिपाना अप्याचरत॥७६॥