Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 73

90 Mantra
20/73
Devata- अश्विसरस्वतीन्द्रा देवताः Rishi- विदर्भिर्ऋषिः Chhand- निचृदनुष्टुप् Swara- गान्धारः
Mantra with Swara
अ॒श्विना॒ गोभि॑रिन्द्रि॒यमश्वे॑भिर्वी॒र्यं बल॑म्।ह॒विषेन्द्र॒ꣳ सर॑स्वती॒ यज॑मानमवर्द्धयन्॥७३॥

अ॒श्विना॑। गोभिः॑। इ॒न्द्रि॒यम्। अश्वे॑भिः। वी॒र्य्य᳕म्। बल॑म्। ह॒विषा॑। इन्द्र॑म्। सर॑स्वती। यज॑मानम्। अ॒व॒र्द्ध॒य॒न् ॥७३ ॥

Mantra without Swara
अश्विना गोभिरिन्द्रियमश्वेभिर्वीर्यम्बलम् । हविषेन्द्रँ सरस्वती यजमानमवर्दयन् ॥

अश्विना। गोभिः। इन्द्रियम्। अश्वेभिः। वीर्य्यम्। बलम्। हविषा। इन्द्रम्। सरस्वती। यजमानम्। अवर्द्धयन्॥७३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अश्विना) अध्यापकोपदेशकौ (गोभिः) सुशिक्षिताभिर्वाणीभिः पृथिवीधेनुभिर्वा (इन्द्रियम्) धनम् (अश्वेभिः) सुशिक्षितैस्तुरङ्गादिभिः (वीर्यम्) पराक्रमम् (बलम्) (हविषा) उपादत्तेन पुरुषार्थेन (इन्द्रम्) ऐश्वर्ययुक्तम् (सरस्वती) सुशिक्षिता विदुषी स्त्री (यजमानम्) सत्यानुष्ठानस्य यज्ञस्य कर्त्तारम् (अवर्द्धयन्)॥७३॥
Essence
ये येषां समीपे निवसेयुस्तेषां योग्यतास्ति, ते तान् सर्वैः शुभगुणकर्मभिरैश्वर्यादिना च समुन्नयेयुः॥७३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
अश्विना सरस्वती च गोभिरश्वेभिर्हविषेन्द्रियं वीर्यं बलमिन्द्रं यजमानमवर्द्धयन्॥७३॥