Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 63

90 Mantra
20/63
Devata- अश्विसरस्वतीन्द्रा देवताः Rishi- विदर्भिर्ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
ति॒स्रस्त्रे॒धा सर॑स्वत्य॒श्विना॒ भार॒तीडा॑।ती॒व्रं प॑रि॒स्रुता॒ सोम॒मिन्द्रा॑य सुषुवु॒र्मद॑म्॥६३॥

ति॒स्रः। त्रे॒धा। सर॑स्वती। अ॒श्विना॑। भार॑ती। इडा॑। ती॒व्रम्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। सोम॑म्। इन्द्रा॑य। सु॒षु॒वुः॒। सु॒सु॒वु॒रिति॑ सुसुवुः। मद॑म् ॥६३ ॥

Mantra without Swara
तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा । तीव्रम्परिस्रुता सोममिन्द्राय सुषुवुर्मदम् ॥

तिस्रः। त्रेधा। सरस्वती। अश्विना। भारती। इडा। तीव्रम्। परिस्रुतेति परिऽस्रुता। सोमम्। इन्द्राय। सुषुवुः। सुसुवुरिति सुसुवुः। मदम्॥६३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तिस्रः) त्रित्वसंख्याविशिष्टाः (त्रेधा) त्रिभिः प्रकारैः (सरस्वती) सुशिक्षिता वाणी (अश्विना) सद्वैद्यौ (भारती) धारिका माता (इडा) स्तोतु योग्योपदेशिका (तीव्रम्) तीव्रगुणस्वभावम् (परिस्रुता) परितः सर्वतः स्रवन्ति येन तेन (सोमम्) ओषधिरसं प्रेरणाख्यं व्यवहारं वा (इन्द्राय) ऐश्वर्य्याय (सुषुवुः) निष्पादयन्तु (मदम्) हर्षकम्॥६३॥
Essence
मनुष्यैः सोमाद्योषधिरसं निर्माय पीत्वाऽऽरोग्यं कृत्वा वाचं धियं वक्तृत्वं चोन्नेनयम्॥६३॥
Subject
पुनर्भैषज्यादिविषयमाह॥
Anvaya
हे मनुष्याः! यथा सरस्वती भारतीडा च तिस्रोऽश्विना चेन्द्राय परिस्रुता तीव्र मदं सोमं त्रेधा सुषुवुस्तथा यूयमप्येनं सुषुनोत॥६३॥