Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 54

90 Mantra
20/54
Devata- इन्द्रो देवता Rishi- वसिष्ठ ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासोऽअ॒भ्यर्चन्त्य॒र्कैः। स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द् यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः॥५४॥

ए॒व। इत्। इन्द्र॑म्। वृष॑णम्। वज्र॑बाहु॒मिति॒ वज्र॑ऽबाहुम्। वसि॑ष्ठासः। अ॒भि। अ॒र्च॒न्ति॒। अ॒र्कैः। सः। नः॒। स्तु॒तः। वी॒रव॒दिति॑ वी॒रऽव॑त्। धा॒तु॒। गोम॒दिति॒ गोऽम॑त्। यू॒यम्। पा॒त॒। स्व॒स्तिभि॒रिति॑ स्व॒स्तिऽभिः॑। सदा॑। नः॒ ॥५४ ॥

Mantra without Swara
एवेदिन्द्रँवृषणँवज्रबाहुँवसिष्ठासोऽअभ्यर्चन्त्यर्कैः । स न स्तुतो वीरवद्धातु गोमद्यूयम्पात स्वस्तिभिः सदा नः ॥

एव। इत्। इन्द्रम्। वृषणम्। वज्रबाहुमिति वज्रऽबाहुम्। वसिष्ठासः। अभि। अर्चन्ति। अर्कैः। सः। नः। स्तुतः। वीरवदिति वीरऽवत्। धातु। गोमदिति गोऽमत्। यूयम्। पात। स्वस्तिभिरिति स्वस्तिऽभिः। सदा। नः॥५४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एव) निश्चये (इत्) अपि (इन्द्रम्) शत्रुविदारकम् (वृषणम्) बलिष्ठम् (वज्रबाहुम्) वज्रवद्भुजम् (वसिष्ठासः) अतिशयेन वसवः (अभि) सर्वतः (अर्चन्ति) सत्कुर्वन्ति (अर्कैः) पूजितैः कर्मभिः (सः) (नः) अस्मान् (स्तुतः) प्रशंसितः (वीरवत्) वीरैर्युक्तम् (धातु) दधातु (गोमत्) प्रशंसिता गावो गवादयः पशवो यस्मिन् (यूयम्) (पात) (स्वस्तिभिः) कल्याणकरैः कर्मभिः (सदा) सर्वस्मिन् काले (नः) अस्मान्॥५४॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारः। यथा राजपुरुषाः रक्षेयुस्तथैतान् प्रजाजना अपि रक्षन्तु॥५४॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वसिष्ठासः! ये वृषणं वज्रबाहुमिन्द्रमर्कैविद्वांसोऽभ्यर्चन्ति, तमेव यूयमिदर्चत, स स्तुतो नो गोमत् वीरवद्राज्यं धातु, यूयं स्वस्तिभिर्नः सदा पात॥५४॥