Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 50

90 Mantra
20/50
Devata- इन्द्रो देवता Rishi- गर्ग ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ हवे॑हवे सु॒हव॒ꣳ शूर॒मिन्द्र॑म्। ह्वया॑मि श॒क्रं पु॑रुहू॒तमिन्द्र॑ꣳ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑॥५०॥

त्रा॒तार॑म्। इन्द्र॑म्। अ॒वि॒तार॑म्। इन्द्र॑म्। हवे॑हव॒ इति॒ हवे॑ऽहवे। सु॒हव॒मिति॑ सु॒ऽहव॑म्। शूर॑म्। इन्द्र॑म्। ह्वया॑मि। श॒क्रम्। पु॒रु॒हू॒तमिति॑ पुरुऽहू॒तम्। इन्द्र॑म्। स्व॒स्ति। नः॒। म॒घवेति॑ म॒घऽवा॑। धा॒तु॒। इन्द्रः॑ ॥५० ॥

Mantra without Swara
त्रातारमिन्द्रमवितारमिन्द्रँ हवेहवे सुहवँ शूरमिन्द्रम् । ह्वयामि शक्रम्पुरुहूतमिन्द्रँ स्वस्ति नो मघवा धात्विन्द्रः ॥

त्रातारम्। इन्द्रम्। अवितारम्। इन्द्रम्। हवेहव इति हवेऽहवे। सुहवमिति सुऽहवम्। शूरम्। इन्द्रम्। ह्वयामि। शक्रम्। पुरुहूतमिति पुरुऽहूतम्। इन्द्रम्। स्वस्ति। नः। मघवेति मघऽवा। धातु। इन्द्रः॥५०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्रातारम्) रक्षितारम् (इन्द्रम्) दुष्टविदारकम् (अवितारम्) प्रीणयितारम् (इन्द्रम्) परमैश्वर्यप्रदम् (हवेहवे) युद्धे युद्धे (सुहवम्) सुष्ठ्वाह्वानम् (शूरम्) शत्रुहिंसकम् (इन्द्रम्) राज्यधारकम् (ह्वयामि) आह्वयामि (शक्रम्) आशुकर्त्तारम् (पुरुहूतम्) पुरुभिविद्वद्भिराहूतम् (इन्द्रम्) शत्रुदलविदारकम् (स्वस्ति) सुखम् (नः) अस्मभ्यम् (मघवा) परमपूज्यः (धातु) दधातु (इन्द्रः) प्रशस्तसेनाधारकः॥५०॥
Essence
मनुष्यास्तमेव सर्वदा सत्कुर्युर्यो विद्यान्यायधर्मसेवकः सुशीलो जितेन्द्रियः सन् सर्वेषां सुखवर्द्धनाय प्रयतेत॥५०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे सभाध्यक्ष! यं हवेहवे त्रातारमिन्द्रमवितारमिन्द्रं सुहवं शूरमिन्द्रं शक्रं पुरुहूतमिन्द्रं त्वां ह्वयामि स मघवेन्द्रस्त्वं नः स्वस्ति धातु॥५०॥