Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 49

90 Mantra
20/49
Devata- इन्द्रो देवता Rishi- वामदेव ऋषिः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ नऽइन्द्रो॒ हरि॑भिर्या॒त्वच्छा॑र्वाची॒नोऽव॑से॒ राध॑से च। तिष्ठा॑ति व॒ज्री म॒घवा॑ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ॥४९॥

आ। नः॒। इन्द्रः॑। हरि॑भि॒रिति॒ हरि॑ऽभिः। या॒तु॒। अच्छ॑। अ॒र्वा॒ची॒नः। अव॑से। राध॑से। च॒। तिष्ठा॑ति। व॒ज्री। म॒घवेति म॒घऽवा॑। वि॒र॒प्शीति॑ विऽर॒प्शी। इ॒मम्। य॒ज्ञम्। अनु॑। नः॒। वाज॑साता॒विति॒ वाज॑ऽसातौ ॥४९ ॥

Mantra without Swara
आ नऽइन्द्रो हरिभिर्यात्वच्छार्वाचीनोवसे राधसे च । तिष्ठाति वज्री मघवा विरप्शीमँयज्ञमनु नो वाजसातौ ॥

आ। नः। इन्द्रः। हरिभिरिति हरिऽभिः। यातु। अच्छ। अर्वाचीनः। अवसे। राधसे। च। तिष्ठाति। वज्री। मघवेति मघऽवा। विरप्शीति विऽरप्शी। इमम्। यज्ञम्। अनु। नः। वाजसाताविति वाजऽसातौ॥४९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(आ) (नः) अस्माकम् (इन्द्रः) ऐश्वर्यप्रदः सेनाधीशः (हरिभिः) सुशिक्षितैरश्वैः (यातु) प्राप्नोतु (अच्छ) सुष्ठु रीत्या (अर्वाचीनः) विद्यादिबलेनाभिगन्ता (अवसे) रक्षणाद्याय (राधसे) धनाय (च) (तिष्ठाति) तिष्ठेत् (वज्री) प्रशस्तशस्त्रविद्याशिक्षितः (मघवा) परमपूजितधनयुक्तः (विरप्शी) महान् (इमम्) (यज्ञम्) सत्यं न्यायाख्यम् (अनु) आनुकूल्ये (नः) अस्माकम् (वाजसातौ) संग्रामे॥४९॥
Essence
ये युद्धविद्याकुशला महाबलिष्ठाः प्रजाधनवर्द्धकास्सुशिक्षिताऽश्वहस्त्यादियुक्ता मङ्गलकारिणस्स्युस्ते हि राजपुरुषास्सन्तु॥४९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यो मघवा विरप्श्यर्वाचीनो वज्रीन्द्रो हरिभिर्नोवसे राधसे च वाजसातौ तिष्ठाति, स न इमं यज्ञमच्छान्वायातु॥४९॥