Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 46

90 Mantra
20/46
Devata- स्वाहाकृतयो देवताः Rishi- आङ्गिरस ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
स्तो॒काना॒मिन्दुं॒ प्रति॒ शूर॒ऽइन्द्रो॑ वृषा॒यमा॑णो वृष॒भस्तु॑रा॒षाट्। घृ॒त॒प्रुषा॒ मन॑सा॒ मोद॑मानाः॒ स्वाहा॑ दे॒वाऽअ॒मृता॑ मादयन्ताम्॥४६॥

स्तो॒काना॑म्। इन्दु॑म्। प्रति॑। शूरः॑। इन्द्रः॑। वृ॒षा॒यमा॑णः। वृष॒यमा॑ण॒ इति॑ वृष॒यऽमा॑णः। वृ॒ष॒भः। तु॒रा॒षाट्। घृ॒त॒प्रुषेति॑ घृत॒ऽप्रुषा॑। मन॑सा। मोद॑मानाः। स्वाहा॑। दे॒वाः। अ॒मृताः॑। मा॒द॒य॒न्ता॒म् ॥४६ ॥

Mantra without Swara
स्तोकानामिन्दुम्प्रति शूरऽइन्द्रो वृषायमाणो वृषभस्तुराषाट् । घृतप्रुषा मनसा मोदमानाः स्वाहा देवाऽअमृता मादयन्ताम् ॥

स्तोकानाम्। इन्दुम्। प्रति। शूरः। इन्द्रः। वृषायमाणः। वृषयमाण इति वृषयऽमाणः। वृषभः। तुराषाट्। घृतप्रुषेति घृतऽप्रुषा। मनसा। मोदमानाः। स्वाहा। देवाः। अमृताः। मादयन्ताम्॥४६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्तोकानाम्) अल्पानाम् (इन्दुम्) आर्द्रस्वभाविनं जनम् (प्रति) (शूरः) शत्रूणां हिंसकः (इन्द्रः) ऐश्वर्यवान् (वृषायमाणः) बलिष्ठः सन् (वृषभः) उत्तमः (तुराषाट्) तुरान् हिंसकान् सहते (घृतप्रुषा) प्रकाशसेविना (मनसा) विज्ञानेन (मोदमानाः) आनन्दिताः सन्तः (स्वाहा) सत्यया क्रियया (देवाः) विद्वांसः (अमृताः) आत्मना स्वस्वरूपेण मृत्युरहिताः (मादयन्ताम्) तृप्ता भूत्वाऽस्मानानन्दयन्तु॥४६॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। ये जना अल्पगुणमपि जनं दृष्ट्वार्द्रचित्ता भवन्ति, ते सर्वतः सर्वान् सुखयन्ति॥४६॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यथा वृषायमाणो वृषभस्तुराषाट् शूर इन्द्र स्तोकानामिन्दुं प्रत्याऽऽनन्दति तथा घृतप्रुषा मनसा स्वाहा च मोदमाना अमृता देवा मादयन्ताम्॥४६॥