Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 45

90 Mantra
20/45
Devata- वनस्पतिर्देवता Rishi- आङ्गिरस ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वन॒स्पति॒रव॑सृष्टो॒ न पाशै॒स्त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः।इन्द्र॑स्य ह॒व्यैर्ज॒ठरं॑ पृणा॒नः स्वदा॑ति य॒ज्ञं मधु॑ना घृ॒तेन॑॥४५॥

वन॒स्पतिः॑। अव॑सृष्ट॒ इत्य॒वऽसृ॑ष्टः। न। पाशैः॑। त्मन्या॑। स॒म॒ञ्जन्निति॑ सम्ऽअ॒ञ्जन्। श॒मि॒ता। न। दे॒वः। इन्द्र॑स्य। ह॒व्यैः। ज॒ठर॑म्। पृ॒णा॒नः। स्वदा॑ति। य॒ज्ञम्। मधु॑ना। घृ॒तेन॑ ॥४५ ॥

Mantra without Swara
वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ्छमिता न देवः । इन्द्रस्य हव्यैर्जठरम्पृणानः स्वदाति यज्ञम्मधुना घृतेन् ॥

वनस्पतिः। अवसृष्ट इत्यवऽसृष्टः। न। पाशैः। त्मन्या। समञ्जन्निति सम्ऽअञ्जन्। शमिता। न। देवः। इन्द्रस्य। हव्यैः। जठरम्। पृणानः। स्वदाति। यज्ञम्। मधुना। घृतेन॥४५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वनस्पतिः) वनस्य वृक्षसमूहस्य पतिः पालकः (अवसृष्टः) आज्ञप्तः पुरुषः (न) इव (पाशैः) दृढबन्धनैः (त्मन्या) आत्मना। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इति टास्थाने यादेशः (समञ्जन्) सम्पृचानः (शमिता) यज्ञः (न) इव (देवः) दिव्यसुखदाता (इन्द्रस्य) ऐश्वर्यस्य (हव्यैः) अत्तुमर्हैः (जठरम्) उदरमिव कोशम् (पृणानः) पूर्णं कुर्वन् (स्वदाति) आस्वदेत। अत्र लेटि व्यत्ययेन परस्मैपदम् (यज्ञम्) अनुष्ठेयम् (मधुना) क्षौद्रेण (घृतेन) आज्येन॥४५॥
Essence
अत्रोपमालङ्कारः। यथा वनस्पतिः वर्द्धमानः सन् फलानि ददाति यथा पाशैद्धर्बद्धश्चोरः पापान्निवर्त्तते यथा वा यज्ञः सर्वं जगद्रक्षति, तथा यज्ञसेवी युक्ताऽहारविहारी जनो जगदुपकारको भवति॥४५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यः पाशैर्वनस्पतिरवसृष्टो न त्मन्या समञ्जन् देवः शमिता नेन्द्रस्य जठरं पृणानो हव्यैर्मधुना घृतेन च सह यज्ञं कुर्वन् स्वदाति स रोगहीनः स्यात्॥४५॥