Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 44

90 Mantra
20/44
Devata- त्वष्टा देवता Rishi- आङ्गिरस ऋषिः Chhand- निचृत् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
त्वष्टा॒ दध॒च्छुष्म॒मिन्द्रा॑य॒ वृष्णे॑ऽपा॒कोऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑। वृषा॒ यज॒न्वृष॑णं॒ भूरि॑रेता मू॒र्द्धन् य॒ज्ञस्य॒ सम॑नक्तु॒ दे॒वान्॥४४॥

त्वष्टा॑। दध॑त्। शुष्म॑म्। इन्द्रा॑य। वृष्णे॑। अपा॑कः। अचि॑ष्टुः। य॒शसे॑। पु॒रूणि॑। वृषा॑। यज॑न्। वृष॑णम्। भूरि॑रेता॒ इति॒ भूरि॑ऽरेताः। मू॒र्द्धन्। य॒ज्ञस्य॑। सम्। अ॒न॒क्तु॒। दे॒वान् ॥४४ ॥

Mantra without Swara
त्वष्टा दधच्छुष्ममिन्द्राय वृष्णेपाकोचिष्टुर्यशसे पुरूणि । वृषा यजन्वृषणम्भूरिरेता मूर्धन्यज्ञस्य समनक्तु देवान् ॥

त्वष्टा। दधत्। शुष्मम्। इन्द्राय। वृष्णे। अपाकः। अचिष्टुः। यशसे। पुरूणि। वृषा। यजन्। वृषणम्। भूरिरेता इति भूरिऽरेताः। मूर्द्धन्। यज्ञस्य। सम्। अनक्तु। देवान्॥४४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(त्वष्टा) विद्युदिव वर्त्तमानो विद्वान् (दधत्) दधन् (शुष्मम्) बलम् (इन्द्राय) परमैश्वर्याय (वृष्णे) परशक्तिबन्धकाय (अपाकः) अप्रशस्यः। पाक इति प्रशस्यनामसु पठितम्॥ (निघं॰३. ८) (अचिष्टुः) गमनकर्त्ता (यशसे) कीर्त्यै (पुरूणि) बहूनि (वृषा) सेक्ता (यजन्) संगच्छमानः (वृषणम्) मेघम् (भूरिरेताः) बहुवीर्यः (मूर्द्धन्) मूर्द्धनि (यज्ञस्य) संगतस्य जगतः (सम्) (अनक्तु) कामयताम् (देवान्) विदुषः॥४४॥
Essence
यावन् मनुष्यः शुद्धान्तःकरणो न भवेत्, तावद् विद्वत्सङ्गसत्यशास्त्रप्राणायामाभ्यासं च कुर्याद्, यतः शीघ्रं शुद्धान्तःकरणः स्यादिति॥४४॥
Subject
पुनर्विद्वद्विषयमाह॥
Anvaya
हे विद्वन्! यथा त्वष्टा वृषेन्द्राय वृष्णे शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि दधद् भूरिरेता वृषणं यजन् यज्ञस्य मूर्द्धन् देवान् समनक्तु तथा त्वमपि कुरु॥४४॥