Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 40

90 Mantra
20/40
Devata- इन्द्रो देवता Rishi- आङ्गिरस ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इन्द्रं॒ दुरः॑ कव॒ष्यो धाव॑माना॒ वृषा॑णं यन्तु॒ जन॑यः सु॒पत्नीः॑। द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ता सु॒वीरा॑ वी॒रं प्रथ॑माना॒ महो॑भिः॥४०॥

इन्द्र॑म्। दुरः॑। क॒व॒ष्यः᳖। धाव॑मानाः। वृषा॑णम्। य॒न्तु॒। जन॑यः। सु॒पत्नी॒रिति॑ सु॒ऽपत्नीः॑। द्वारः॑। दे॒वीः। अ॒भितः॑। वि। श्र॒य॒न्ता॒म्। सु॒वीरा॒ इति॑ सु॒ऽवीराः॑। वी॒रम्। प्रथ॑मानाः। महो॑भि॒रिति॒ महः॑ऽभिः ॥४० ॥

Mantra without Swara
इन्द्रम्दुरः कवष्यो धावमाना वृषाणँयन्तु जनयः सुपत्नीः । द्वारो देवीरभितो विश्रयन्ताँ सुवीरा वीरम्प्रथमाना महोभिः ॥

इन्द्रम्। दुरः। कवष्यः। धावमानाः। वृषाणम्। यन्तु। जनयः। सुपत्नीरिति सुऽपत्नीः। द्वारः। देवीः। अभितः। वि। श्रयन्ताम्। सुवीरा इति सुऽवीराः। वीरम्। प्रथमानाः। महोभिरिति महःऽभिः॥४०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रम्) परमैश्वर्यवन्तम् (दुरः) द्वाराणि (कवष्यः) शब्दे साधवः (धावमानाः) शीघ्रं गच्छन्त्यः (वृषाणम्) अतिवीर्यवन्तम् (यन्तु) प्राप्नुवन्तु (जनयः) जनिकाः (सुपत्नीः) शोभनाः (द्वारः) (देवीः) विद्यादिगुणैः प्रकाशमानाः (अमितः) (वि) (श्रयन्ताम्) (सुवीराः) शोभनाश्च वीराश्च ते (वीरम्) बलवन्तम् (प्रथमानाः) प्रख्याताः (महोभिः) सुपूजितैर्गुणैः॥४०॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यत्र परस्परस्य प्रीत्या स्वयंवरं विवाहं कुर्वन्ति, तत्र मनुष्याः सदा नन्दन्ति॥४०॥
Subject
पुनः प्रकारान्तरेणोपदेशविषयमाह॥
Anvaya
हे मनुष्याः! यथा कवष्यो वृषाणं वीरमिन्द्रं धावमाना जनयो दुरो यन्तु, यथा प्रथमानाः सुवीरा महोभिर्द्वारो देवीः सुपत्नीरभितो विश्रयन्ताम्, तथा यूयमप्याचरत॥४०॥