Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 39

90 Mantra
20/39
Devata- इन्द्रो देवता Rishi- आङ्गिरस ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
जु॒षा॒णो ब॒र्हिर्हरि॑वान्न॒ऽइन्द्रः॑ प्रा॒चीन॑ꣳ सीदत् प्र॒दिशा॑ पृथि॒व्याः। उ॒रु॒प्रथाः॒ प्रथ॑मानꣳ स्यो॒नमा॑दि॒त्यैर॒क्तं वसु॑भिः स॒जोषाः॑॥३९॥

जु॒षा॒णः। ब॒र्हिः। हरि॑वा॒निति॒ हरि॑ऽवान्। नः॒। इन्द्रः॑। प्रा॒चीन॑म्। सी॒द॒त्। प्र॒दिशेति॑ प्र॒ऽदिशा॑। पृ॒थि॒व्याः। उ॒रु॒प्रथा॒ इत्यु॑रु॒ऽप्रथाः॑। प्रथ॑मानम्। स्यो॒नम्। आ॒दि॒त्यैः। अ॒क्तम्। वसु॑भि॒रिति॒ वसु॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑ ॥३९ ॥

Mantra without Swara
जुषाणो बर्हिर्हरिवान्नऽइन्द्रः प्राचीनँ सीदत्प्रदिशा पृथिव्याः । उरुप्रथाः प्रथमानँ स्योनमादित्यैरक्तँवसुभिः सजोषाः ॥

जुषाणः। बर्हिः। हरिवानिति हरिऽवान्। नः। इन्द्रः। प्राचीनम्। सीदत्। प्रदिशेति प्रऽदिशा। पृथिव्याः। उरुप्रथा इत्युरुऽप्रथाः। प्रथमानम्। स्योनम्। आदित्यैः। अक्तम्। वसुभिरिति वसुऽभिः। सजोषा इति सऽजोषाः॥३९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(जुषाणः) सेवमानः (बर्हिः) अन्तरिक्षम्। बर्हिरित्यन्तरिक्षनामसु पठितम्॥ (निघं॰१.३) (हरिवान्) बहवो हरयो हरणशीलाः किरणा विद्यन्ते यस्य सः (नः) अस्माकम् (इन्द्रः) जलानां धर्त्ता (प्राचीनम्) प्राक्तनम् (सीदत्) सीदति (प्रदिशा) उपदिशा (पृथिव्याः) भूमेः (उरुप्रथाः) बहुविस्तारः (प्रथमानम्) (स्योनम्) सुखकारकं स्थानम् (आदित्यैः) मासैः (अक्तम्) प्रसिद्धम् (वसुभिः) पृथिव्यादिभिः (सजोषाः) सह वर्त्तमानः॥३९॥
Essence
मनुष्यैरहर्निशं प्रयत्नादादित्यवदविद्यान्धकारं निवार्य जगति महत्सुखं कार्य्यम्। यथा पृथिव्याः सकाशात् सूर्यो महान् वर्तते, तथाऽविदुषां मध्ये विद्वानिति बोध्यम्॥३९॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यथा बर्हिर्जुषाणो हरिवान् उरुप्रथा आदित्यैर्वसुभिः सजोषा इन्द्रः पृथिव्याः प्रदिशा प्रथमानमक्तं प्राचीनं स्योनं सीदत् तथा त्वं नोऽऽस्माकं मध्ये भव॥३९॥