Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 33

90 Mantra
20/33
Devata- सोमो देवता Rishi- काक्षीवतसुकीर्त्तिर्ऋषिः Chhand- विराट् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोस्य॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्ण॑ऽए॒ष ते॒ योनि॑र॒श्विभ्यां॑ त्वा॒ सर॑स्वत्यै॒ त्वेन्द्रा॑य त्वा सु॒त्राम्णे॑॥३३॥

उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒मऽगृ॑हीतः। अ॒सि॒। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑। ए॒षः। ते॒। योनिः॑। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। त्वा॒। सर॑स्वत्यै। त्वा॒। इन्द्रा॑य। त्वा॒। सु॒त्राम्ण॒ इति॑ सु॒ऽत्राम्णे॑ ॥३३ ॥

Mantra without Swara
उपयामगृहीतोस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णेऽएष ते योनिरश्विभ्यान्त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे ॥

उपयामगृहीत इत्युपयामऽगृहीतः। असि। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। सरस्वत्यै। त्वा। इन्द्राय। त्वा। सुत्राम्ण इति सुऽत्राम्णे। एषः। ते। योनिः। अश्विभ्यामित्यश्विऽभ्याम्। त्वा। सरस्वत्यै। त्वा। इन्द्राय। त्वा। सुत्राम्ण इति सुऽत्राम्णे॥३३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) उपयामैरुत्तमनियमैः संगृहीतः (असि) (अश्विभ्याम्) पूर्णविद्याऽध्यापको-पदेशकाभ्याम् (त्वा) त्वाम् (सरस्वत्यै) सुशिक्षितायै वाचे (त्वा) त्वाम् (इन्द्राय) परमैश्वर्याय (त्वा) (सुत्राम्णे) सुष्ठु रक्षकाय। अत्र कृतो बहुलम् [अष्टा॰भा॰वा॰३.२.११३] इत्यनेन करणे मनिन् (एषः) (ते) तव (योनिः) विद्यासम्बन्धः (अश्विभ्याम्) (त्वा) (सरस्वत्यै) प्रशस्तगुणायै विदुष्यै (त्वा) (इन्द्राय) परमोत्तमव्यवहाराय (त्वा) (सुत्राम्णे) सुष्ठु रक्षकाय॥३३॥
Essence
यो विद्वद्भिः शिक्षितः स्वयं सुप्रज्ञो जितेन्द्रियो विविधविद्यो विद्वत्प्रियः स्यात्, स एव विद्याधर्मप्रवृत्तयेऽधिष्ठाता कर्त्तव्यो भवेत्॥३३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे विद्वन्! यस्त्वमश्वियामुपयामगृहीतोऽसि, यस्य त एषोऽश्विभ्यां सह योनिरस्ति, तं त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे चाहं गृह्णामि, सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्णे त्वा गृह्णामि॥३३॥