Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 30

90 Mantra
20/30
Devata- इन्द्रो देवता Rishi- नृमेधपुरुषमेधावृषी Chhand- बृहती Swara- मध्यमः
Mantra with Swara
बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम्। येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि॥३०॥

बृ॒हत्। इन्द्रा॑य। गा॒य॒त॒। मरु॑तः। वृ॒त्र॒हन्त॑म॒मिति॑ वृत्र॒हन्ऽत॑मम्। येन॑। ज्योतिः॑। अज॑नयन्। ऋ॒ता॒वृधः॑। ऋ॒त॒वृध॒ इत्यृ॑त॒ऽवृधः॑। दे॒वम्। दे॒वाय॑। जागृ॑वि ॥३० ॥

Mantra without Swara
बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् । येन ज्योतिरजनयन्नृतावृधो देवन्देवाय जागृवि ॥

बृहत्। इन्द्राय। गायत। मरुतः। वृत्रहन्तममिति वृत्रहन्ऽतमम्। येन। ज्योतिः। अजनयन्। ऋतावृधः। ऋतवृध इत्यृतऽवृधः। देवम्। देवाय। जागृवि॥३०॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(बृहत्) महत् साम (इन्द्राय) परमैश्वर्ययुक्ताय (गायत) प्रशंसत (मरुतः) विद्वांसः (वृत्रहन्तमम्) यो वृत्र मेघं हन्ति तमतिशयितं सूर्यमिव (येन) (ज्योतिः) तेजः (अजनयन्) उत्पादयन्तु (ऋतावृध) ये ऋतं सत्यं वर्द्धयन्ति ते (देवम्) दिव्यसुखप्रदम् (देवाय) दिव्यगुणाय (जागृवि) जागरूकम्॥३०॥
Essence
मनुष्यैः सदैव युक्ताहारविहारेण शरीरात्मरोगान् निवार्य पुरुषार्थमुन्नीय परमेश्वरप्रतिपादकं गानं कर्त्तव्यम्॥३०॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मरुतः! ऋतावृधो भवन्तो येन देवायेन्द्राय देवं जागृवि ज्योतिरजनयँस्तद् वृत्रहन्तमं बृहत् तस्मै गायत॥३०॥