Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 25

90 Mantra
20/25
Devata- अग्निर्देवता Rishi- अश्वतराश्विर्ऋषिः Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह।तं लो॒कं पुण्यं॒ प्रज्ञे॑षं॒ यत्र॑ दे॒वाः स॒हाग्निना॑॥२५॥

यत्र॑। ब्रह्म॑। च॒। क्ष॒त्रम्। च॒। स॒म्यञ्चौ॑। चर॑तः। स॒ह। तम्। लो॒कम्। पुण्य॑म्। प्र। ज्ञे॒ष॒म्। यत्र॑। दे॒वाः। स॒ह। अ॒ग्निना॑ ॥२५ ॥

Mantra without Swara
यत्र ब्रह्म च क्षत्रञ्च सम्यञ्चो चरतः सह । तँलोकम्पुण्यम्प्र ज्ञेषँयत्र देवाः सहाग्निना ॥

यत्र। ब्रह्म। च। क्षत्रम्। च। सम्यञ्चौ। चरतः। सह। तम्। लोकम्। पुण्यम्। प्र। ज्ञेषम्। यत्र। देवाः। सह। अग्निना॥२५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्र) यस्मिन् ब्रह्मणि (ब्रह्म) ब्राह्मणकुलमर्थाद् विद्वत्कुलम् (च) (क्षत्रम्) क्षत्रियकुलमर्थाद् विद्याशौर्यादिगुणोपेतम् (च) वैश्यादिकुलानि (सम्यञ्चौ) सम्यगेकीभावेनाञ्चतस्तौ (चरतः) वर्त्तेते (सह) सार्द्धम् (तम्) (लोकम्) द्रष्टव्यम् (पुण्यम्) निष्पापं सुखस्वरूपम् (प्र) (ज्ञेषम्) जानीयाम्। जानातेर्लेटि सिपि रूपम् (यत्र) (देवाः) दिव्याः पृथिव्यादयो विद्वांसो वा (सह) (अग्निना) विद्युता॥२५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यद् ब्रह्मैकचेतनमात्रं सर्वेषामधिकारि निष्पापं ज्ञानेन द्रष्टुं योग्यं सर्वत्राऽभिव्याप्तं सहचरितं वर्तते, तदेव सर्वैरुपास्यम्॥२५॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! यथाऽहं यत्र ब्रह्म च क्षत्रं सह सम्यञ्चौ च चरतो यत्र देवा अग्निना सह वर्त्तन्ते, तं लोकं पुण्यं प्रज्ञेषम्, तथा यूयमप्येतं विजानीत॥२५॥