Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 21

90 Mantra
20/21
Devata- सूर्यो देवता Rishi- प्रस्कण्व ऋषिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
उद्व॒यं तम॑स॒स्परि॒ स्वः पश्य॑न्त॒ उत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥२१॥

उत्। व॒यम्। तम॑सः। परि॑। स्वः᳕। पश्य॑न्तः। उत्त॑र॒मित्युत्ऽत॑रम्। दे॒वम्। दे॒व॒त्रेति॑ देव॒ऽत्रा। सूर्य॑म्। अग॑न्म। ज्योतिः॑। उ॒त्त॒ममित्यु॑त्ऽत॒मम् ॥२१ ॥

Mantra without Swara
उद्वयन्तमसस्परि स्वः पश्यन्तऽउत्तरम् । देवन्देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥

उत्। वयम्। तमसः। परि। स्वः। पश्यन्तः। उत्तरमित्युत्ऽतरम्। देवम्। देवत्रेति देवऽत्रा। सूर्यम्। अगन्म। ज्योतिः। उत्तममित्युत्ऽतमम्॥२१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उत्) (वयम्) (तमसः) अन्धकारात् (परि) सर्वतः (स्वः) सुखरूपम् (पश्यन्तः) (उत्तरम्) सर्वेभ्यः सूक्ष्मत्वादुत्तरम् (देवम्) दिव्यसुखप्रदम् (देवत्रा) दिव्यगुणेषु देवेषु (सूर्य्यम्) सवितारं चराचरात्मानं परमेश्वरं वा (अगन्म) प्राप्नुयाम (ज्योतिः) स्वप्रकाशस्वरूपम् (उत्तमम्) सर्वोत्कृष्टम्॥२१॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यः सूर्यवत् स्वप्रकाशः सर्वात्मनां प्रकाशको महादेवो जगदीश्वरोऽस्ति, तमेव सर्वे मनुष्या उपासीरन्॥२१॥
Subject
अथ प्रकृतविषये उपासनाविषयमाह॥
Anvaya
हे मनुष्याः! यथा वयं तमसः परं ज्योतिः सूर्यं परि पश्यन्तः सन्तो देवत्रा देवं स्वरुत्तरमुत्तमं ज्योतिः स्वप्रकाशं परमेश्वरमुदगन्म, तथैव यूयमप्येनं प्राप्नुत॥२१॥