Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 18

90 Mantra
20/18
Devata- वरुणो देवता Rishi- प्रजापतिर्ऋषिः Chhand- भुरिगत्यष्टिः Swara- गान्धारः
Mantra with Swara
यदापो॑ऽअ॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च। अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः। अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽय॒क्ष्यव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि॥१८॥

यत्। आपः॑। अ॒घ्न्याः। इति॑। वरु॑ण। इति॑। शपा॑महे। ततः॑। व॒रु॒ण॒। नः॒। मु॒ञ्च॒। अव॑भृ॒थेत्यव॑ऽभृथ। नि॒चि॒म्पु॒णेति॑ निऽचुम्पुण। नि॒चे॒रुरिति॑ निऽचे॒रुः। अ॒सि॒। नि॒चि॒म्पु॒ण इति॑ निऽचुम्पु॒णः। अव॑। दे॒वैः। दे॒वकृ॑त॒मिति॑ दे॒वऽकृ॑तम्। एनः॑। अ॒य॒क्षि॒। अव॑। मर्त्यैः॑। मर्त्य॑कृत॒मिति॒ मर्त्य॑ऽकृतम्। पु॒रु॒राव्ण॒ इति॑ पुरु॒ऽराव्णः॑। दे॒व॒। रि॒षः। पा॒हि॒ ॥१८ ॥

Mantra without Swara
यदापोऽअघ्न्याऽइति वरुणेति शपामहे ततो वरुण नो मुञ्च । अवभृथ निचुम्पुण निचेरुरसि निचुम्पुणः । अव देवैर्देवकृतमेनो यक्ष्यव मर्त्यैर्मर्त्यकृतम्पुरुराव्णो देव रिषस्पाहि ॥

यत्। आपः। अघ्न्याः। इति। वरुण। इति। शपामहे। ततः। वरुण। नः। मुञ्च। अवभृथेत्यवऽभृथ। निचिम्पुणेति निऽचुम्पुण। निचेरुरिति निऽचेरुः। असि। निचिम्पुण इति निऽचुम्पुणः। अव। देवैः। देवकृतमिति देवऽकृतम्। एनः। अयक्षि। अव। मर्त्यैः। मर्त्यकृतमिति मर्त्यऽकृतम्। पुरुराव्ण इति पुरुऽराव्णः। देव। रिषः। पाहि॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(यत्) याः (आपः) प्राणाः (अघ्न्याः) हन्तुमयोग्या गावः (इति) (वरुण) सर्वोत्कृष्ट (इति) अनेन प्रकारेण (शपामहे) उपालभामहे (ततः) तस्मादविद्यादिक्लेशादधर्माचरणाच्च (वरुण) वरप्रापक (नः) अस्मान् (मुञ्च) पृथक् कुरु (अवभृथ) विद्याव्रतस्नातक (निचुम्पुण) मन्दगामिन्। अत्र चुप मन्दायां गतावित्यस्मादौणादिक उणन् प्रत्ययो मुमागमश्च (निचेरुः) निश्चितानन्दप्रदः (असि) (निचुम्पुणः) निश्चितानन्दयुक्तः (अव) (देवैः) विद्वद्भिः (देवकृतम्) देवैराचरितम् (एनः) पापम् (अयक्षि) नाशयसि (अव) (मर्त्यैः) अविद्वद्भिर्मनुष्यैः (मर्त्यकृतम्) मर्त्यैराचरितम् (पुरुराव्णः) बहुदुःखप्रदात् (देव) दिव्यबोधप्रद (रिषः) हिंसनात् (पाहि)॥१८॥
Essence
अध्यापकोपदेशकैः शिष्या ईदृशाः सत्यवादिनः सम्पादनीया यदेतैः यद्यत् पापात्मकं तत्तत् कदाचित् केनचित् नो अनुष्ठेयम्॥१८॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे वरुण देव! यतस्त्वं यदापोऽघ्न्या इति वरुणेति वयं शपामहे ततो नो मुञ्च। हे अवभृथ निचुम्पुण! त्वं निचेरुर्निचुम्पुणोऽसीति पुरुराव्णो रिषस्पाहि, यद्देवकृतमेनोऽस्ति तद् देवैरवायक्षि, यन्मर्त्यकृतमेनोऽस्ति तन्मर्त्यैः सहावायक्षि॥१८॥