Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 20 / Mantra 1

90 Mantra
20/1
Devata- सभोशो देवता Rishi- प्रजापतिर्ऋषिः Chhand- द्विपदा विराड गायत्री Swara- षड्जः
Mantra with Swara
क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑रसि। मा त्वा॑ हिꣳसी॒न्मा मा॑ हिꣳसीः॥१॥

क्ष॒त्रस्य॑। योनिः॑। अ॒सि॒। क्ष॒त्रस्य॑। नाभिः॑। अ॒सि॒। मा। त्वा॒। हि॒ꣳसी॒त्। मा। मा॒। हि॒ꣳसीः॒ ॥१ ॥

Mantra without Swara
क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि । मा त्वा हिँसीन्मा मा हिँसीः ॥

क्षत्रस्य। योनिः। असि। क्षत्रस्य। नाभिः। असि। मा। त्वा। हिꣳसीत्। मा। मा। हिꣳसीः॥१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(क्षत्रस्य) राज्यस्य (योनिः) निमित्तम् (असि) (क्षत्रस्य) राजकुलस्य (नाभिः) नाभिरिव जीवनहेतुः (असि) (मा) निषेधे (त्वा) त्वां सभापतिम् (हिंसीत्) हिंस्यात् (मा) (मा) माम् (हिंसीः) हिंस्याः॥१॥
Essence
स्वामी भृत्यजनाश्च परस्परमेवं प्रतिज्ञां कुर्यू राजजनाः प्रजाजनान् प्रजाजना राजजनाँश्च सततं रक्षेयुः, येन सर्वेषां सुखोन्नतिः स्यात्॥१॥
Subject
अस्यादितो राजधर्मविषयमाह॥
Anvaya
हे सभेश! यतस्त्वं क्षत्रस्य योनिरसि क्षत्रस्य नाभिरसि, तस्मात् त्वा कोऽपि मा हिंसीत्, त्वं मा मा हिंसीः॥१॥