Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 2 / Mantra 26

34 Mantra
2/26
Devata- ईश्वरो देवता Rishi- वामदेव ऋषिः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दाऽअ॑सि॒ वर्चो॑ मे देहि। सूर्य॑स्या॒वृत॒मन्वाव॑र्ते॥२६॥

स्व॒यं॒भूरिति॑ स्वय॒म्ऽभूः। अ॒सि॒। श्रेष्ठः॑। र॒श्मिः। व॒र्चो॒दा इति॑ वर्चः॒ऽदाः। अ॒सि॒। वर्चः॑। मे॒। दे॒हि॒। सूर्य्य॑स्य। आ॒वृत॒मित्या॒ऽवृत॑म्। अनु॑। आ। व॒र्त्ते॒ ॥२६॥

Mantra without Swara
स्वयम्भूरसि श्रेष्ठो रश्मिर्वर्चादाऽअसि वर्चा मे देहि । सूर्यस्यावृतमन्वावर्ते ॥

स्वयंभूरिति स्वयम्ऽभूः। असि। श्रेष्ठः। रश्मिः। वर्चोदा इति वर्चःऽदाः। असि। वर्चः। मे। देहि। सूर्य्यस्य। आवृतमित्याऽवृतम्। अनु। आ। वर्त्ते॥२६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(स्वयंभूः) स्वयं भवत्यनादिस्वरूपः (असि) अस्ति वा (श्रेष्ठः) अतिशयेन प्रशस्तः (रश्मिः) प्रकाशकः प्रकाशमयो वा (वर्चोदाः) वर्चो विद्यां दीप्तिं वा ददातीति (असि) भवसि (वर्चः) विज्ञानं प्रकाशनं वा (मे) मह्यम् (देहि) ददाति वा। (सूर्य्यस्य) चराचरस्यात्मनो जगदीश्वरस्य विदुषो जीवस्य वा ‘सूर्य्य आत्मा जगतस्तस्थुषश्च (यजु॰७.४२) अनेनेश्वरस्य ग्रहणम्। सूर्य इति पदनामसु पठितम् (निघं॰५.६) इति गत्यर्थेन ज्ञानरूपत्वादीश्वरो व्यवहारप्रापकत्वाद् विद्वानेवाऽत्र गृह्यते (आवृतम्) समन्ताद् वर्त्तन्ते यस्मिन् तमीश्वराज्ञापालनमुपदेशप्रकाशनं वा (अनु) पश्चादर्थे (आ) अभ्यर्थे (वर्त्ते) स्पष्टार्थः॥ अयं मन्त्रः (शत॰१.९.३.१५-१७) व्याख्यातः॥२६॥
Essence
नैव परमेश्वरस्य विदुषो जीवस्य वा कौचिन्मातापितरौ कदाचित् स्तः किंत्वयमेव सर्वस्य माता पिता चास्ति। तथा नैतस्मात् कश्चिदुत्तमः प्रकाशहेतुर्विद्याप्रदो वा पदार्थोऽस्ति। अतः सर्वैर्मनुष्यैरस्यैवाज्ञायामनुवर्त्तनीयम्॥२६॥
Subject
अथ सूर्य्यशब्देनेश्वरविद्वदर्थावुपदिश्येते॥
Anvaya
हे जगदीश्वर! विद्वन्वा त्वं श्रेष्ठो रश्मिः स्वयंभूरसि, वर्च्चोदा असि, त्वं मे वर्च्चो देहि। अहं सूर्य्यस्य तवावृतमाज्ञापालनमन्वावर्त्ते॥२६॥