Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 2 / Mantra 19

34 Mantra
2/19
Devata- अग्निवायू देवते Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- भूरिक् पङ्क्ति, Swara- पञ्चमः
Mantra with Swara
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातꣳ सु॒म्ने स्थः॑ सु॒म्ने मा॑ धत्तम्। य॒ज्ञ नम॑श्च त॒ऽउप॑ च य॒ज्ञस्य॑ शि॒वे सन्ति॑ष्ठस्व॒ स्विष्टे॒ मे॒ संति॑ष्ठस्व॥१९॥

घृ॒ताची॑। स्थः॒। धुर्य्यौ॑। पा॒त॒म्। सु॒म्ने। स्थः॒। सु॒म्ने। मा॒। ध॒त्त॒म्। यज्ञ॑। नमः॑। च॒। ते॒। उप॑। च॒। य॒ज्ञस्य॑। शिवे॑। सम्। ति॒ष्ठ॒स्व॒। स्विष्टे॒ इति॑ सुऽइ॑ष्टे। मे॒। सम्। ति॒ष्ठ॒स्व॒ ॥१९॥

Mantra without Swara
घृताची स्थो धुर्या पातँ सुम्ने स्थः सुम्ने मा धत्तम् । यज्ञ नमश्च तऽउप च यज्ञस्य शिवे सन्तिष्ठस्व स्विष्टे मे सन्तिष्ठस्व ॥

घृताची। स्थः। धुर्य्यौ। पातम्। सुम्ने। स्थः। सुम्ने। मा। धत्तम्। यज्ञ। नमः। च। ते। उप। च। यज्ञस्य। शिवे। सम्। तिष्ठस्व। स्विष्टे इति सुऽइष्टे। मे। सम्। तिष्ठस्व॥१९॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(घृताची) घृतमुदकमञ्चत इति घृताची अग्निवाय्वोर्धारणाकर्षणक्रिये। अत्र पूर्वसवर्णादेशः घृतमित्युदकनामसु पठितम् (निघं॰१.१२) (स्थः) स्तः। अत्र सर्वत्र पुरुषव्यत्ययः (धुर्य्यौ) धुरं यज्ञस्याग्रं मुख्याङ्गं वहतस्तौ। अत्र धुरो यड्ढकौ (अष्टा॰४.४.७७) इति यत् प्रत्ययः (पातम्) रक्षतः (सुम्ने) सुखकारिके उक्ते क्रिये। सुम्नमिति सुखनामसु पठितम् (निघं॰३.६) (स्थः) भवतः (सुम्ने) अत्युत्कृष्टे सुखे (मा) मां यज्ञानुष्ठातारम् (धत्तम्) धारयतः। (यज्ञ) इज्यते सर्वैर्जनैः स यज्ञ ईश्वरस्तत्सम्बुद्धौ, क्रियासाध्यो वा, अत्रान्त्ये पक्षे सुपां सुलुक् [अष्टा॰७.१.३९] इति सोर्लुक् (नमः) नम्रीभावार्थे (च) समुच्चये (ते) तुभ्यं तस्य वा (उप) सामीप्ये क्रियायोगे। उपेत्युपजनं प्राह (निरु॰१.३) (च) पश्चादर्थे (यज्ञस्य) ज्ञानक्रियाभ्यामनुष्ठेयस्य (शिवे) कल्याणसाधिके॥ सर्वनिघृष्व॰ (उणा॰१.१५३) इत्ययं सिद्धः (संतिष्ठस्व) संतिष्ठते। अत्र लडर्थे लोट् (स्विष्टे) शोभनमिष्टं याभ्यां ते (मे) मम (संतिष्ठस्व) सुष्ठुसाधने स्थिरो भव, संतिष्ठो वा॥ अयं मन्त्रः (शत॰१.८.३.२७) व्याख्यातः॥१९॥
Essence
अत्र लुप्तोपमालङ्कारः। ईश्वरोऽभिवदति हे मनुष्या! यूयमेतयोरसच्छेदकधारकयोर्जगत्पालनहेत्वोः सुखकारिणोः क्रियाकाण्डस्य निमित्तयोरूर्ध्वतिर्य्यग्गमनशीलयोरग्निवाय्वोः सकाशात् कार्य्याणि साधित्वा सुखेषु संस्थितिं कुरुत, मदाज्ञापालनं मां च सततं नमस्कुरुत। पूर्वमन्त्रोक्तैरुपकारैः परमं सुखं भवतीत्यनेनोक्तमिति॥१९॥
Subject
अथोक्तेन यज्ञेन किं भवतीत्युपदिश्यते॥
Anvaya
यावग्निवायू यज्ञस्य धुर्य्ये सुम्ने स्थो घृताची स्थः सर्वं जगत् पातं रक्षतस्तौ मया सम्यक् प्रयोजितौ सुम्ने सुखे मा मां धत्तं धारयतः। यज्ञो नमश्च ये यथा ते तव शिवे उपसंतिष्ठेते मे ममाप्येते तथैव संतिष्ठेताम्। तस्माद् यथाहं तस्य यज्ञस्यानुष्ठाने संतिष्ठे तथा त्वमप्यत्र संतिष्ठस्व। यथाऽहं यज्ञमनुष्ठाय सुखे संतिष्ठे तथा त्वमपि तत्र संतिष्ठस्व॥१९॥