Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 2 / Mantra 18

34 Mantra
2/18
Devata- विश्वेदेवा देवताः Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- स्वराट् त्रिष्टुप्, Swara- धैवतः
Mantra with Swara
स॒ꣳस्र॒वभा॑गा स्थे॒षा बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः। इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ऽआ॒सद्या॒स्मिन् ब॒र्हिषि॑ मादयध्व॒ꣳ स्वाहा॒ वाट्॥१८॥

स॒ꣳस्र॒वभा॑गाः। स्थ॒। इ॒षा। बृ॒हन्तः॑। प्र॒स्तरे॒ष्ठाः। प॒रि॒धेयाः॑। च॒। दे॒वाः। इ॒माम्। वाच॑म्। अ॒भि। विश्वे॑। गृ॒णन्तः॑। आ॒सद्य॑। अ॒स्मिन्। ब॒र्हिषि॑। मा॒द॒य॒ध्व॒म्। स्वाहा॑। वाट् ॥१८॥

Mantra without Swara
सँस्रवभागा स्थेषा बृहन्तः प्रस्तरेष्ठाः परिधेयाश्च देवाः । इमाँवाचमभि विश्वे गृणन्तऽआसद्यास्मिन्बर्हिषि मादयध्वँ स्वाहा वाट् ॥

सꣳस्रवभागाः। स्थ। इषा। बृहन्तः। प्रस्तरेष्ठाः। परिधेयाः। च। देवाः। इमाम्। वाचम्। अभि। विश्वे। गृणन्तः। आसद्य। अस्मिन्। बर्हिषि। मादयध्वम्। स्वाहा। वाट्॥१८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(संस्रवभागाः) सम्यक् स्रूयन्ते ये ते संस्रवाः। भज्यन्ते ये ते भागाः। संस्रवा भागा येषां ते (स्थ) भवत (इषा) इष्यते ज्ञायते येन तदिट् ज्ञानम्। इष गतावित्यस्य क्विबन्तस्य रूपम्। कृतो बहुलम् [अष्टा॰३.३.११३ भा॰वा॰] इति करणे क्विप् (बृहन्तः) वर्धमाना वर्धयन्तश्च (प्रस्तरेष्ठाः) शुभे न्यायविद्यासने तिष्ठन्ति ते। तत्पुरुषे कृति बहुलम् (अष्टा॰६.३.१४) इति सप्तस्या अलुक् (परिधेयाः) परितः सर्वतो धातुं धापयितुमर्हाः (च) समुच्चयार्थे (देवाः) विद्वांसो दिव्याः पदार्था वा (इमाम्) प्रत्यक्षाम् (वाचम्) वचन्ति वाचयन्ति सर्वा विद्या यया ताम्। सत्यलक्षणां वेदचतुष्टयीम्। वागिति पदनामसु पठितम् (निघं॰५.५) (अभि) अभीत्याभिमुख्यं प्राह (निरु॰१.३) (विश्वे) सर्वे (गृणन्तः) स्तुवन्त उपदिशन्तो वा (आसद्य) समन्ताद् विज्ञाय स्थित्वा वा। (अस्मिन्) प्रत्यक्षप्राप्ते (बर्हिषि) बृंहन्ते वर्धयन्ते येन तद्बर्हिर्ज्ञानं प्राप्तं कर्मकाण्डं वा तस्मिन् (मादयध्वम्) हर्षयध्वम् (स्वाहा) सु आहेत्यस्मिन्नर्थे (वाट्) वहन्ति सुखानि यया क्रियया सा वाट् निपातोऽयम्। अयं मन्त्रः (शत॰१.८.३.२३-२६) व्याख्यातः॥१८॥
Essence
ईश्वर आज्ञापयति ये मनुष्या धार्मिकाः पुरुषार्थिनो वेदविद्याप्रचारे उत्तमे व्यवहारे च नित्यं वर्त्तन्ते तेषामेव बृहन्ति सुखानि भवन्ति। यौ पूर्वस्मिन् मन्त्रेऽग्निशब्देनेश्वरभौतिकार्थावुक्तावनेन तयोः सकाशादीदृशा उपकारा ग्राह्या इत्युच्यते॥१८॥
Subject
स यज्ञः कथं किमर्थञ्च कर्त्तव्य इत्युपदिश्यते॥
Anvaya
हे बृहन्तः प्रस्तरेष्ठाः परिधेयाः देवा विद्वांसो यूयमिमां वाचमभिगृणन्त इषा संस्रवभागा स्थ भवत स्वाहावाडासाद्यास्मिन् बर्हिषि मादयध्वमन्यानेतल्लक्षणान् मनुष्यान् कृत्वा हर्षयत चैवमस्मिन् बर्हिषि इमां वाचमभिगृणद्भिर्युष्माभिरिषा स्वाहा वाडासाद्य प्रस्तरेष्ठा विश्वेदेवाः सर्वे विद्वांसः सदा परिधेयाः। तान् प्राप्य चास्मिन् बर्हिषि मादयध्वम्॥१८॥