Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 2 / Mantra 14

34 Mantra
2/14
Devata- अग्निः सर्वस्य Rishi- परमेष्ठी प्रजापतिर्ऋषिः Chhand- अनुष्टुप्,भूरिक् आर्ची गायत्री Swara- गान्धारः
Mantra with Swara
ए॒षा ते॑ऽअग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च प्यायस्व। व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि। अग्ने॑ वाजजि॒द् वाजं॑ त्वा संसृ॒वासं॑ वाज॒जित॒ꣳ सम्मा॑र्ज्मि॥१४॥

ए॒षा। ते॒। अ॒ग्ने॒। स॒मिदिति॑ स॒म्ऽइत्। तया॑। वर्ध॑स्व। च॒। आ॒। च॒। प्या॒य॒स्व॒। व॒र्धि॒षी॒महि॑। च॒। व॒यम्। आ। च॒। प्या॒सि॒षी॒म॒हि॒। अग्ने॑। वा॒ज॒जि॒दिति॑ वाजऽजित्। वाज॑म्। त्वा॒। स॒सृ॒वास॒मिति॑ स॒सृ॒वास॑म्। वा॒ज॒जित॒मिति॑ वाज॒ऽजित॑म्। सम्। मा॒र्ज्मि॒ ॥१४॥

Mantra without Swara
एषा तेऽअग्ने समित्तया वर्धस्व चा च प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि । अग्ने वाजजिद्वाजन्त्वा ससृवाँसँ वाजजितँ सम्मार्ज्मि ॥

एषा। ते। अग्ने। समिदिति सम्ऽइत्। तया। वर्धस्व। च। आ। च। प्यायस्व। वर्धिषीमहि। च। वयम्। आ। च। प्यासिषीमहि। अग्ने। वाजजिदिति वाजऽजित्। वाजम्। त्वा। ससृवासमिति ससृवासम्। वाजजितमिति वाजऽजितम्। सम्। मार्ज्मि॥१४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(एषा) प्रदीप्तिहेतुः (ते) तव तस्य वा (अग्ने) परमेश्वर! भौतिको वा (समित्) सम्यगिध्यते दीप्यतेऽनया सा विद्या काष्ठादिर्वा (तया) विद्यया समिधा वा (वर्धस्व) वर्धते वा। सर्वत्रान्त्यपक्षे व्यत्ययो लडर्थे लोट् च। (च) समुच्चये (आ) क्रियायोगे (च) पुनरर्थे (प्यायस्व) प्यायते वा (वर्धिषीमहि) स्पष्टार्थम् (च) समुच्चये (वयम्) विद्यावन्तो धार्म्मिकाः (आ) समन्तात् क्रियायोगे (च) अन्वाचये (प्यासिषीमहि) अत्र प्यैङ्धातोः सिबुत्सर्गश्छन्दसि (अष्टा॰३.१.३४) अनेन वार्त्तिकेन सिप् प्रत्ययः (अग्ने) ज्ञानस्वरूपविजयप्रदेश्वर! भौतिको वा। (वाजजित्) वाजं सर्वस्य वेगं जयति स ईश्वरः। वाजं जयति येन वा स भौतिकः। (वाजम्) ज्ञानवन्तं वेगवन्तं वा (त्वा) त्वां तं वा (ससृवांसम्) सर्वं ज्ञानवन्तं शिल्पविद्यागुणप्राप्तिमन्तं वा। (वाजजितम्) यो येन वा वाजं संग्रामं जयति तम (सम्) सम्यगर्थे (मार्ज्मि) शुद्धो भवामि शोधयामि वा॥ अयं मन्त्रः (शत॰१.८.२.३-७) व्याख्यातः॥१४॥
Essence
अत्र श्लेषालङ्कारः। क्रियाद्वयं चादरार्थं विज्ञेयम्। ये मनुष्याः परमेश्वराज्ञापालने क्रियाकौशले च वर्धन्ते, ते विद्यायां सर्वानानन्दयित्वा दुष्टान् शत्रून् जित्वा शुद्धा भूत्वा सुखयन्ति, नेतरेऽलसाः। चकारचतुष्टयेनेश्वराज्ञा धर्म्या सूक्ष्मस्थूलतयाऽनेकविधास्ति तथा क्रियाकाण्डे कर्त्तव्यानि कर्माण्यनेकानि सन्तीति विज्ञेयम्। त्रयोदशमन्त्रेण या वेदविद्या प्रतिपादितास्ति, तया सुखार्थं यज्ञसंधानमुक्तमनेनैतयैवं पुरुषार्थः कार्य्य इति प्रकाशितम्॥१४॥
Subject
अग्निना यज्ञे कथमुपकारो ग्राह्य इत्युपदिश्यते॥
Anvaya
हे अग्ने जगदीश्वर! ते तव यैषा समित् वेदविद्यास्ति तयास्माभिः स्तुतः सँस्त्वं वर्धस्व चास्मान् नित्यं वर्धय। हे भगवन्नेवं भवद्विदितगुणैरस्माभिः प्रकाशितः संस्त्वं प्यायस्व चास्मान् नित्यं प्यायय। हे भगवन्नग्ने वाजजिद्वाजं ससृवांसं त्वां वयं वर्धिषीमहि। कृपया भवान् चास्मानपि वाजजितः सस्रुषो वाजान् करोतु, यथा वयं भवन्तमाप्यासिषीमहि, तथैव भवांश्चास्मान् सर्वैः शुभगुणैराप्यायताम्। अहं भवन्तमाश्रित्य संमार्ज्मि भवदाज्ञानुष्ठानेन शुद्धो भवामीत्येकः॥ यैषा तेऽस्याग्नेर्वर्धिका समिदस्ति तया चायं वर्धते आप्यायते च वयं तं वाजं ससृवांसं वाजजितमग्निं विद्यावृद्धये वर्धिषीमहि, आप्यासिषीमहि च। यतोऽयं शिल्पविद्यासिद्धैर्विमानादिभिर्यानैर्वाजान् सस्रुषो वाजजितोऽस्मान् विजयेन वर्धयति, तमहं संमार्ज्मीति द्वितीयः॥१४॥