Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 95

95 Mantra
19/95
Devata- अश्विनौ देवते Rishi- शङ्ख ऋषिः Chhand- निचृज्जगती Swara- निषादः
Mantra with Swara
तेजः॑ पशू॒ना ह॒विरि॑न्द्रि॒याव॑त् परि॒स्रुता॒ पय॑सा सार॒घं मधु॑। अ॒श्विभ्यां॑ दु॒ग्धं भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या॑म॒मृतः॒ सोम॒ऽइन्दुः॑॥९५॥

तेजः॑। प॒शू॒नाम्। ह॒विः। इ॒न्द्रि॒याव॑त्। इ॒न्द्रि॒यव॒दिती॑न्द्रि॒यऽव॑त्। प॒रि॒स्रुतेति॑ प॒रि॒ऽस्रुता॑। पय॑सा। सा॒र॒घम्। मधु॑। अ॒श्विभ्या॒मित्य॒श्विऽभ्या॑म्। दु॒ग्धम्। भि॒षजा॑। सर॑स्वत्या। सु॒ता॒सु॒ताभ्या॒मिति॑ सुतासु॒ताभ्या॑म्। अ॒मृतः॑। सोमः॑। इन्दुः॑ ॥९५ ॥

Mantra without Swara
तेजः पशूनाँ हविरिन्द्रियावत्परिस्रुता पयसा सारघं मधु । अश्विभ्यान्दुग्धम्भिषजा सरस्वत्या सुतासुताभ्याममृतः सोम इन्दुः ॥

तेजः। पशूनाम्। हविः। इन्द्रियावत्। इन्द्रियवदितीन्द्रियऽवत्। परिस्रुतेति परिऽस्रुता। पयसा। सारघम्। मधु। अश्विभ्यामित्यश्विऽभ्याम्। दुग्धम्। भिषजा। सरस्वत्या। सुतासुताभ्यामिति सुतासुताभ्याम्। अमृतः। सोमः। इन्दुः॥९५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(तेजः) प्रकाशः (पशूनाम्) गवादीनां सकाशात् (हविः) दुग्धादिकम् (इन्द्रियावत्) प्रशस्तानि इन्द्रियाणि भवन्ति यस्मिन् (परिस्रुता) परितः स्रवन्ति प्राप्नुवन्ति येन तत् (पयसा) दुग्धेन (सारघम्) सुस्वादुयुक्तम् (मधु) मधुरादिगुणोपेतम् (अश्विभ्याम्) विद्याव्यापिभ्याम् (दुग्धम्) पयः (भिषजा) वैद्यकविद्याविदौ (सरस्वत्या) विदुष्या स्त्रिया (सुतासुताभ्याम्) निष्पादिताऽनिष्पादिताभ्याम् (अमृतः) मृत्युधर्मरहितः (सोमः) ऐश्वर्यम् (इन्दुः) सुस्नेहयुक्तः॥९५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा गोपा गवादीन् पशून् संरक्ष्य दुग्धादिना संतुष्यन्ति, तथैव मनआदीन्द्रियाणि दुष्टाचारात् पृथक् संरक्ष्य योगिभिरानन्दितव्यमिति॥९५॥ अत्र सोमादिपदार्थगुणवर्णनादेतदर्थस्य पूर्वाध्यायार्थेन सह सङ्गतिरस्तीति वेद्यम्॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! याभ्यां सुताऽसुताभ्यां भिषजाऽश्विभ्यां पशूनां परिस्रुता पयसा तेज इन्द्रियावत् सारघं मधु हविर्दुग्धं सरस्वत्यामृतः सोम इन्दुश्चोत्पाद्यते, तौ योगसिद्धिं प्राप्नुतः॥९५॥