Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 93

95 Mantra
19/93
Devata- अश्विनौ देवते Rishi- शङ्ख ऋषिः Chhand- त्रिष्टुप् Swara- धैवतः
Mantra with Swara
अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गैः॒ सम॑धा॒त् सर॑स्वती। इन्द्र॑स्य रू॒पꣳ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः॥९३॥

अङ्गा॑नि। आ॒त्मन्। भि॒षजा॑। तत्। अ॒श्विना॑। आ॒त्मान॑म्। अङ्गैः॑। सम्। अ॒धा॒त्। सर॑स्वती। इन्द्र॑स्य। रू॒पम्। श॒तमा॑न॒मिति॑ श॒तऽमा॑नम्। आयुः॑। च॒न्द्रे॑ण। ज्योतिः॑। अ॒मृत॑म्। दधा॑नाः ॥९३ ॥

Mantra without Swara
अङ्गान्यात्मन्भिषजा तदश्विनात्मानमङ्गैः समधात्सरस्वती । इन्द्रस्य रूपँ शतमानमायुश्चन्द्रेण ज्योतिरमृतन्दधानाः ॥

अङ्गानि। आत्मन्। भिषजा। तत्। अश्विना। आत्मानम्। अङ्गैः। सम्। अधात्। सरस्वती। इन्द्रस्य। रूपम्। शतमानमिति शतऽमानम्। आयुः। चन्द्रेण। ज्योतिः। अमृतम्। दधानाः॥९३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अङ्गानि) योगाङ्गानि (आत्मन्) आत्मनि (भिषजा) सद्वैद्यवदरोगौ (तत्) (अश्विना) सिद्धसाधकौ (आत्मानम्) (अङ्गैः) योगाङ्गैः (सम्) (अधात्) समादधाति (सरस्वती) योगिनी स्त्री (इन्द्रस्य) परमैश्वर्यस्य (रूपम्) (शतमानम्) शतमसंख्यं मानं यस्य तत् (आयुः) जीवनम् (चन्द्रेण) आनन्देन (ज्योतिः) प्रकाशम् (अमृतम्) (दधानाः) धरन्तः॥९३॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। यथा रोगिणः सद्वैद्यं प्राप्यौषधं पथ्यं च सेवित्वा नीरोगा भूत्वाऽऽनन्दन्ति, तथा योगजिज्ञासवो योगिन इममवाप्य योगाङ्गान्यनुष्ठाय निष्क्लेशा भूत्वा सततं सुखिनो भवन्ति॥९३॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
हे मनुष्याः! भिषजाऽश्विना सिद्धसाधकौ विद्वांसौ यथा सरस्वत्यात्मन् स्थिरा सत्यङ्गानि योगाङ्गान्यनुष्ठायात्मानं समधात्, तथैवाङ्गैर्यदिन्द्रस्य रूपमस्ति, तत् संदध्याताम्। यथा योगं दधानाः शतमान-मायुर्धरन्ति, तथा चन्द्रेणऽमृतं ज्योतिर्दध्यात्॥९३॥