Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 91

95 Mantra
19/91
Devata- इन्द्रो देवता Rishi- शङ्ख ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य॒ कर्णा॑भ्या॒ श्रोत्र॑म॒मृतं॒ ग्रहा॑भ्याम्। यवा॒ न ब॒र्हिर्भ्रु॒वि केस॑राणि क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घं मुखा॑त्॥९१॥

इन्द्र॑स्य। रू॒पम्। ऋ॒ष॒भः। बला॑य। कर्णा॑भ्याम्। श्रोत्र॑म्। अ॒मृत॑म्। ग्रहा॑भ्याम्। यवाः॑। न। ब॒र्हिः। भ्रु॒वि। केस॑राणि। क॒र्कन्धु॑। ज॒ज्ञे॒। मधु॑। सा॒र॒घम्। मुखा॑त् ॥९१ ॥

Mantra without Swara
इन्द्रस्य रूपम्वृषभो बलाय कर्णाभ्याँ श्रोत्रममृतङ्ग्रहाभ्यां । यवा न बरिर्भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघम्मुखात् ॥

इन्द्रस्य। रूपम्। ऋषभः। बलाय। कर्णाभ्याम्। श्रोत्रम्। अमृतम्। ग्रहाभ्याम्। यवाः। न। बर्हिः। भ्रुवि। केसराणि। कर्कन्धु। जज्ञे। मधु। सारघम्। मुखात्॥९१॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रस्य) परमैश्वर्य्यस्य (रूपम्) स्वरूपम् (ऋषभः) विज्ञानवान् (बलाय) योगसामर्थ्याय (कर्णाभ्याम्) कुर्वन्ति श्रवणं याभ्याम् (श्रोत्रम्) शब्दविषयम् (अमृतम्) अमृतात्मकमुदकम् (ग्रहाभ्याम्) याभ्यां गृह्णीतस्ताभ्याम् (यवाः) धान्यविशेषाः (न) इव (बर्हिः) वर्द्धनम् (भ्रुवि) नेत्रललाटयोर्मध्ये (केसराणि) विज्ञानानि। अत्र कि ज्ञाने इत्यस्मादौणादिकः सरन् प्रत्ययः। (कर्कन्धु) येन कर्म दधाति (जज्ञे) जायते (मधु) विज्ञानम् (सारघम्) यदारघ्यते स्वाद्यते तदारघं समानं च तदारघं त तत् (मुखात्)॥९१॥
Essence
अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा निवृत्तिमार्गे परमयोगी योगबलेन सर्वाः सिद्धीः प्राप्नोति, तथैवान्यैर्गृहस्थैरपि प्रवृत्तिमार्गे सर्वमैश्वर्य्यं प्राप्तव्यमिति॥९१॥
Subject
पुनस्तमेव विषयमाह॥
Anvaya
यथा ग्रहाभ्यां सहर्षभो बलाय यवा न कर्णाभ्यां श्रोत्रममृतं कर्कन्धु सारघं मधु बर्हिर्भ्रुवि केसराणि मुखात् जनयति, तथैतत् सर्वमिन्द्रस्य रूपं जज्ञे॥९१॥