Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 87

95 Mantra
19/87
Devata- पितरो देवताः Rishi- शङ्ख ऋषिः Chhand- भुरिक् पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भि॒र्यस्मि॒न्नग्रे॒ योन्यां॒ गर्भो॑ऽअ॒न्तः। प्ला॒शिर्व्य॑क्तः श॒तधा॑र॒ऽउत्सो॑ दु॒हे न कु॒म्भी स्व॒धां पि॒तृभ्यः॥८७॥

कु॒म्भः। व॒नि॒ष्ठुः। ज॒नि॒ता। शची॑भिः। यस्मि॑न्। अग्रे॑। योन्या॑म्। गर्भः॑। अ॒न्तरित्य॒न्तः। प्ला॒शिः। व्य॑क्त॒ इति॒ विऽअ॑क्तः। श॒तधा॑र॒ इति॑ श॒तऽधा॑रः। उत्सः॑। दु॒हे। न। कु॒म्भी। स्व॒धाम्। पि॒तृभ्य॒ इति॑ पि॒तृऽभ्यः॑ ॥८७ ॥

Mantra without Swara
कुम्भो वनिष्ठुर्जनिता शचीभिर्यस्मिन्नग्रे योन्यां गर्भोऽअन्तः । प्लाशिर्व्यक्तः शतधारऽउत्सो दुहे न कुम्भी स्वधाम्पितृभ्यः ॥

कुम्भः। वनिष्ठुः। जनिता। शचीभिः। यस्मिन्। अग्रे। योन्याम्। गर्भः। अन्तरित्यन्तः। प्लाशिः। व्यक्त इति विऽअक्तः। शतधार इति शतऽधारः। उत्सः। दुहे। न। कुम्भी। स्वधाम्। पितृभ्य इति पितृऽभ्यः॥८७॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(कुम्भः) कलश इव वीर्यादिधातुभिः पूर्णः (वनिष्ठुः) सम्भाजी। अत्र वन् सम्भक्तावित्यस्मा-दौणादिक इष्ठुप् प्रत्ययः। (जनिता) उत्पादकः (शचीभिः) कर्मभिः (यस्मिन्) (अग्रे) पुरा (योन्याम्) गर्भाधारे (गर्भः) (अन्तः) अभ्यन्तरे (प्लाशिः) यः प्रकृष्टतयाऽश्नुते सः (व्यक्तः) विविधाभिः पुष्टिभिः प्रसिद्धः (शतधारः) शतशो धारा वाचो यस्यः स (उत्सः) उन्दन्ति यस्मात् स कूप इव (दुहे) प्रपूर्त्तिकरे व्यवहारे (न) इव (कुम्भी) धान्याधारा (स्वधाम्) अन्नम् (पितृभ्यः) पालकेभ्यः॥८७॥
Essence
अत्रोपमालङ्कारः। स्त्रीपुरुषौ वीर्यवन्तौ पुरुषार्थिनौ भूत्वा अन्नादिभिर्विद्वांसं सन्तोष्य धर्मेण सन्तानोत्पत्तिं कुर्याताम्॥८७॥
Subject
दम्पती कीदृशावित्याह॥
Anvaya
यः कुम्भो वनिष्ठुर्जनिता प्लाशिर्व्यक्तः शचीभिः शतधार उत्सो दुहे न पुरुषो या च कुम्भीव स्त्री तौ पितृभ्यः स्वधां प्रदद्याताम्, यस्मिन्नग्रे योन्यामन्तर्गर्भो धीयते, तं सततं रक्षेताम्॥८७॥