Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 85

95 Mantra
19/85
Devata- सविता देवता Rishi- शङ्ख ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यं पु॑रो॒डशे॑न सवि॒ता ज॑जान। यकृ॑त् क्लो॒मानं॒ वरु॑णो भिष॒ज्यन् मत॑स्ने वाय॒व्यैर्न मि॑नाति पि॒त्तम्॥८५॥

इन्द्रः॑। सु॒त्रामेति॑ सु॒ऽत्रामा॑। हृद॑येन। स॒त्यम्। पु॒रो॒डाशे॑न। स॒वि॒ता। ज॒जा॒न॒। यकृ॑त्। क्लो॒मान॑म्। वरु॑णः। भि॒ष॒ज्यन्। मत॑स्ने॒ इति॒ मत॑ऽस्ने। वा॒य॒व्यैः᳖। न। मि॒ना॒ति॒। पि॒त्तम् ॥८५ ॥

Mantra without Swara
इन्द्रः सुत्रामा हृदयेण सत्यम्पुरोडाशेन सविता जजान । यकृत्क्लोमानँवरुणो भिषज्यन्मतस्ने वायव्यैर्न मिनाति पित्तम् ॥

इन्द्रः। सुत्रामेति सुऽत्रामा। हृदयेन। सत्यम्। पुरोडाशेन। सविता। जजान। यकृत्। क्लोमानम्। वरुणः। भिषज्यन्। मतस्ने इति मतऽस्ने। वायव्यैः। न। मिनाति। पित्तम्॥८५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(इन्द्रः) रोगविच्छेदकः (सुत्रामा) यः सुष्ठु त्रायतेरोगाच्छरीरं सः (हृदयेन) स्वात्मना (सत्यम्) यथार्थम्। (पुरोडाशेन) सुसंस्कृतेनान्नेन (सविता) प्रेरकः (जजान) जनयति। अत्र व्यत्ययेन परस्मैपदम्। (यकृत्) हृदयाद् दक्षिणे स्थितं मांसपिण्डम् (क्लोमानम्) कण्ठनाडिकाम् (वरुणः) श्रेष्ठः (भिषज्यन्) चिकित्सां कुर्वन् (मतस्ने) हृदयोभयपार्श्वस्थे अस्थिनी (वायव्यैः) वायुषु साधुभिर्मार्गैः (न) (मिनाति) हिनस्ति (पित्तम्)॥८५॥
Essence
अत्र वाचकलुप्तोपमालङ्कारः। सद्वैद्याः स्वयमरोगा भूत्वान्येषां रोगं विज्ञायारोगान् सततं कुर्युः॥८५॥
Subject
मनुष्यै रोगात् पृथक् भवितव्यमित्याह॥
Anvaya
हे मनुष्याः! यथा सुत्रामा सवितेन्द्रो वरुणो विद्वान् भिषज्यन् सन् हृदयेन सत्यं जजान, पुरोडाशेन वायव्यैश्च यकृत् क्लोमानं मतस्ने पित्तं च न मिनाति, तथैतत्सर्वं यूयं मा हिंस्त॥८५॥