Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 84

95 Mantra
19/84
Devata- सोमो देवता Rishi- शङ्ख ऋषिः Chhand- निचृत त्रिष्टुप् Swara- धैवतः
Mantra with Swara
पय॑सा शु॒क्रम॒मृतं॑ ज॒नित्र॒ꣳ सुर॑या॒ मूत्रा॑ज्जनयन्त॒ रेतः॑। अपाम॑तिं दुर्म॒तिं बाध॑माना॒ऽऊव॑ध्यं॒ वात॑ꣳ स॒ब्वं तदा॒रात्॥८४॥

पय॑सा। शु॒क्रम्। अ॒मृत॑म्। ज॒नित्र॑म्। सुर॑या। मूत्रा॑त्। ज॒न॒य॒न्त॒। रेतः॑। अप॑। अम॑तिम्। दु॒र्म॒तिमिति॑ दुःऽम॒तिम्। बाध॑मानाः। ऊव॑ध्यम्। वात॑म्। स॒ब्व᳕म्। तत्। आ॒रात् ॥८४ ॥

Mantra without Swara
पयसा शुक्रममृतठञ्जनित्रँ सुरया मूत्राज्जनयन्त रेतः । अपामतिन्दुर्मतिम्बाधमाना ऊवध्यँवातँ सब्वन्तदारात् ॥

पयसा। शुक्रम्। अमृतम्। जनित्रम्। सुरया। मूत्रात्। जनयन्त। रेतः। अप। अमतिम्। दुर्मतमिति दुःऽमतिम्। बाधमानाः। ऊवध्यम्। वातम्। सब्वम्। तत्। आरात्॥८४॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(पयसा) जलेन दुग्धेन वा (शुक्रम्) शुद्धम् (अमृतम्) अल्पमृत्युरोगनिवारकम् (जनित्रम्) अपत्यजन्मनिमित्तम् (सुरया) सोमलतादिरसेन (मूत्रात्) मूत्राधारेन्द्रियात् (जनयन्त) उत्पादयेयुः। अत्र लुङ्यडभावः (रेतः) वीर्यम् (अप) (अमतिम्) नष्टा मतिरमतिस्ताम् (दुर्मतिम्) दुष्टा चासौ मतिश्च ताम् (बाधमानाः) निवर्त्तयन्तः (ऊवध्यम्) ऊरू वध्ये येन तत्। अत्र छान्दसो वर्णलोपो वेति रुलोपः। (वातम्) प्राप्तम् (सब्वम्) समवेतम्। अत्र सप समवाये धातोरौणादिको वः प्रत्ययः (तत्) (आरात्) निकटात्॥८४॥
Essence
ये दुर्गुणान् दुष्टसङ्गास्त्यक्त्वा व्यभिचाराद् दूरे निवसन्तो वीर्यं वर्द्धयित्वा सन्तानानुत्पादयन्ति, ते स्वकुलं प्रशस्तं कुर्वन्ति॥८४॥
Subject
स्वकुलं प्रशस्तं कर्त्तव्यमित्याह॥
Anvaya
ये विद्वांसोऽमतिं दुर्मतिमपबाधमानाः सन्तो यदूवध्यं वातं सब्वं पयसा सुरयोत्पन्नं मूत्रात् जनित्रममृतं शुक्रं रेतोऽसि तदाराज्जनयन्त, ते प्रजावन्तो भवन्ति॥८४॥