Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 83

95 Mantra
19/83
Devata- सरस्वती देवता Rishi- शङ्ख ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
सर॑स्वती॒ मन॑सा पेश॒लं वसु॒ नास॑त्याभ्यां वयति दर्श॒तं वपुः॑। रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र्धीर॒स्तस॑रं॒ न वेम॑॥८३॥

सर॑स्वती। मन॑सा। पे॒श॒लम्। वसु॑। नास॑त्याभ्याम्। व॒य॒ति॒। द॒र्श॒तम्। वपुः॑। रस॑म्। प॒रि॒स्रुतेति॑ परि॒ऽस्रुता॑। न। रोहि॑तम्। न॒ग्नहुः॑। धीरः॑। तस॑रम्। न। वेम॑ ॥८३ ॥

Mantra without Swara
सरस्वती मनसा पेशलँवसु नासत्याभ्यां वयति दर्शतँवपुः । रसम्परिस्रुता न रोहितन्नग्नहुर्धीरस्तसरन्न वेम ॥

सरस्वती। मनसा। पेशलम्। वसु। नासत्याभ्याम्। वयति। दर्शतम्। वपुः। रसम्। परिस्रुतेति परिऽस्रुता। न। रोहितम्। नग्नहुः। धीरः। तसरम्। न। वेम॥८३॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(सरस्वती) प्रशस्तं सरो विज्ञानं विद्यते यस्याः सा (मनसा) विज्ञानेन (पेशलम्) उत्तमाङ्गवत् (वसु) द्रव्यम् (नासत्याभ्याम्) न विद्यते असत्यं ययोस्ताभ्यां मातापितृभ्याम् (वयति) विस्तृणाति (दर्शतम्) दर्शनीयम् (वपुः) शरीरमुदकं वा। वपुरित्युदकनामसु पठितम्॥ (निघं॰१.१२) (रसम्) आनन्दम् (परिस्रुता) परितः सर्वतः स्रुतम्। अत्र सुपां सुलुग्॰ [अष्टा॰७.१.३९] इत्याकारादेशः (न) इव (रोहितम्) प्रादुर्भूतम् (नग्नहुः) नग्नं शुद्धं जुहोति गृह्णाति सः (धीरः) ध्यानशीलः (तसरम्) तस्यत्युपक्षयति दुःखानि येन तम् (न) इव (वेम) प्रजननम्॥८३॥
Essence
यथा विद्वांसावध्यापकोपदेशकौ सारं सारं वस्तु गृह्णन्ति, तथैव सर्वैः स्त्रीपुरुषैर्ग्राह्यम्॥८३॥
Subject
विद्वद्वदितरैराचरणीयमित्याह॥
Anvaya
सरस्वती मनसा वेम न यत् पेशलं दर्शतं वपुस्तसरं रोहितं परिस्रुता रसं न वसु वयति, नासत्याभ्यां नग्नहुर्धीरश्चाऽस्ति, तौ द्वौ वयं प्राप्नुयाम॥८३॥