Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 8

95 Mantra
19/8
Devata- सोमो देवता Rishi- आभूतिर्ऋषिः Chhand- निचृत पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
उ॒प॒या॒मगृ॑हीतोऽस्याश्वि॒नं तेजः॑ सारस्व॒तं वी॒र्यमै॒न्द्रं बल॑म्। ए॒ष ते॒ योनि॒र्मोदा॑य त्वान॒न्दाय॑ त्वा॒ मह॑से त्वा॥८॥

उ॒प॒या॒मगृ॑हीतः। अ॒सि॒। आ॒श्वि॒नम्। तेजः॑। सा॒र॒स्व॒तम्। वी॒र्य᳖म्। ऐ॒न्द्रम्। बल॑म्। ए॒षः। ते॒। योनिः॑। मोदा॑य। त्वा॒। आ॒न॒न्दायेत्या॑ऽऽन॒न्दाय॑। त्वा॒। मह॑से। त्वा॒ ॥८ ॥

Mantra without Swara
उपयामगृहीतो स्याश्विनन्तेजः सारस्वतँवीर्यऐन्द्रम्बलम् । एष ते योनिर्मादाय त्वानन्दाय त्वा महसे त्वा ॥

उपयामगृहीतः। असि। आश्विनम्। तेजः। सारस्वतम्। वीर्यम्। ऐन्द्रम्। बलम्। एषः। ते। योनिः। मोदाय। त्वा। आनन्दायेत्याऽऽनन्दाय। त्वा। महसे। त्वा॥८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(उपयामगृहीतः) उपगतैर्धर्म्यैर्यामैर्यमसम्बन्धभिर्नियमैर्गृहीतः संयुतः (असि) (आश्विनम्) अश्विनोः सूर्याचन्द्रमसोरिदम् (तेजः) प्रकाशः (सारस्वतम्) सरस्वत्या वेदवाण्या इदम् (वीर्यम्) पराक्रमः (ऐन्द्रम्) इन्द्रस्य विद्युत इदम् (बलम्) (एषः) (ते) तव (योनिः) गृहम् (मोदाय) हर्षाय (त्वा) त्वाम् (आनन्दाय) परम सुखाय (त्वा) (महसे) महते सत्काराय (त्वा)॥८॥
Essence
ये मनुष्याः सूर्यचन्द्रवत् तेजस्विनो विद्यापराक्रमवन्तो विद्युद्वद्बलिष्ठा भूत्वा स्वयमानन्दिनोऽन्येभ्यो ह्यानन्दं प्रददति, तेऽत्र परमानन्दभोगिनो भवन्ति॥८॥
Subject
पुनर्मनुष्यैः किं कर्त्तव्यमित्युपदिश्यते॥
Anvaya
हे राजप्रजाजन! यस्त्वमुपयामगृहीतोऽसि यस्य ते एष योनिरस्ति, तस्य त आश्विनमिव तेजः सारस्वतं वीर्यमैन्द्रमिव बलञ्चास्तु, तं त्वा मोदाय त्वानन्दाय त्वा महसे च सर्वे स्वीकुर्वन्तु॥८॥