Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 78

95 Mantra
19/78
Devata- प्रजापतिर्देवता Rishi- शङ्ख ऋषिः Chhand- भुरिक् त्रिष्टुप् Swara- धैवतः
Mantra with Swara
वेदे॑न रू॒पे व्य॑पिबत् सुतासु॒तौ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑॥७८॥

वेदे॑न। रू॒पेऽइति॑ रू॒पे। वि। अ॒पि॒ब॒त्। सु॒ता॒सु॒तौ। प्र॒जाप॑ति॒रिति॒ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७८ ॥

Mantra without Swara
वेदेन रूपे व्यपिबत्सुतासुतौ प्रजापतिः । ऋतेन सत्यमिन्द्रियँविपानँ शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु ॥

वेदेन। रूपेऽइति रूपे। वि। अपिबत्। सुतासुतौ। प्रजापतिरिति प्रजाऽपतिः। ऋतेन। सत्यम्। इन्द्रियम्। विपानमिति विऽपानम्। शुक्रम्। अन्धसः। इन्द्रस्य। इन्द्रियम्। इदम्। पयः। अमृतम्। मधु॥७८॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(वेदेन) ईश्वरप्रकाशितेन वेदचतुष्टयेन (रूपे) सत्यानृतस्वरूपे (वि) (अपिबत्) गृह्णीयात् (सुतासुतौ) प्रेरितोप्रेरितौ धर्माधर्मौ (प्रजापतिः) प्रजापालको जीवः (ऋतेन) सत्यविज्ञानयुक्तेन (सत्यम्) सत्सु धर्माचरणेषु साधु (इन्द्रियम्) धनम् (विपानम्) विविधपाननिमित्तम् (शुक्रम्) पराक्रमप्रदम् (अन्धसः) अन्नादेः (इन्द्रस्य) ऐश्वर्ययुक्तस्य जीवस्य (इन्द्रियम्) इन्द्रेणेश्वरेण दत्तं ज्ञानम् (इदम्) जलादि (पयः) दुग्धादि (अमृतम्) मृत्युधर्मरहितं विज्ञानम् (मधु) माधुर्यगुणोपेतम्॥७८॥
Essence
वेदविद एव धर्माधर्मौ ज्ञातुं धर्माचरणेनाऽधर्मत्यागेन च सुखिनो भवितुं शक्नुवन्ति॥७८॥
Subject
अथ वेदज्ञाः कीदृशा इत्युपदिश्यते॥
Anvaya
यः प्रजापतिर्ऋतेन वेदेन सुतासुतौ रूपे व्यपिबत्, स इन्द्रस्यान्धसो विपानं शुक्रं सत्यमिन्द्रियमिदं पयोऽमृतं मध्विन्द्रियं चाप्नुयात्॥७८॥