Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 76

95 Mantra
19/76
Devata- इन्द्रो देवता Rishi- शङ्ख ऋषिः Chhand- भुरिगतिशक्वरी Swara- पञ्चमः
Mantra with Swara
रेतो॒ मूत्रं॒ विज॑हाति॒ योनिं॑ प्रवि॒शदि॑न्द्रि॒यम्। गर्भो ज॒रायु॒णावृ॑त॒ऽउल्बं॑ जहाति॒ जन्म॑ना। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पान॑ꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑॥७६॥

रेतः॑। मूत्र॑म्। वि। ज॒हा॒ति॒। योनि॑म्। प्र॒वि॒शदिति॑ प्रऽवि॒शत्। इ॒न्द्रि॒यम्। गर्भः॑। ज॒रायु॑णा। आवृ॑त॒ इत्यावृ॑तः। उल्व॑म्। ज॒हा॒ति॒। जन्म॑ना। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७६ ॥

Mantra without Swara
रेतो मूत्रँवि जहाति योनिम्प्रविशद्रयिम् । गर्भो जरायुणावृतऽउल्बञ्जहाति जन्मना । ऋतेन सत्यमिन्द्रियँविपानँ शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु ॥

रेतः। मूत्रम्। वि। जहाति। योनिम्। प्रविशदिति प्रऽविशत्। इन्द्रियम्। गर्भः। जरायुणा। आवृत इत्यावृतः। उल्वम्। जहाति। जन्मना। ऋतेन। सत्यम्। इन्द्रियम्। विपानमिति विऽपानम्। शुक्रम्। अन्धसः। इन्द्रस्य। इन्द्रियम्। इदम्। पयः। अमृतम्। मधु॥७६॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(रेतः) वीर्यम् (मूत्रम्) प्रस्रावः (वि) (जहाति) (योनिम्) जन्मस्थानम् (प्रविशत्) प्रवेशं कुर्वत् सत् (इन्द्रियम्) उपस्थः पुरुषलिङ्गम् (गर्भः) यो गृह्यते सः (जरायुणा) बहिराच्छादनेन (आवृतः) (उल्वम्) आवरणम् (जहाति) त्यजति (जन्मना) प्रादुर्भावेन (ऋतेन) बहिस्थेन वायुना सह (सत्यम्) वर्त्तमाने साधु (इन्द्रियम्) जिह्वादिकम् (विपानम्) विविधं पानं येन तत् (शुक्रम्) पवित्रम् (अन्धसः) आवरणस्य (इन्द्रस्य) जीवस्य (इन्द्रियम्) धनम् (इदम्) (पयः) रसवत् (अमृतम्) नाशरहितम् (मधु) येन मन्यते तत्॥७६॥
Essence
प्राणिना यत् किञ्चिद् भुज्यते पीयते तत् परम्परया शुक्रं भूत्वा शरीरकारणं जायते, पुरुषस्योपस्थेन्द्रियं स्त्रीसंयोगेन शुक्रं मुञ्चति। अतोऽन्यत्र मूत्रं त्यजति, तेन ज्ञायते शरीरे मूत्रस्थानादन्यत्र रेतस्तिष्ठति तद्यस्मात् सर्वेभ्योऽङ्गेभ्य उत्पद्यते, तस्मात् सर्वाङ्गाकृतिर्वर्त्तते। अत एव यस्य शरीराद् वीर्यमुत्पद्यते, तदाकृतिरेव सन्तानो जायते॥७६॥
Subject
शरीरात् कथं वीर्य्यमुत्पद्यत इत्याह॥
Anvaya
इन्द्रियं योनिं प्रविशत् सद् रेतो विजहाति। अतोऽन्यत्र मूत्रं विजहाति तज्जरायुणावृतो गर्भो जायते जन्मनोल्वं जहाति, स ऋतेनान्धसो निवर्तकं विपानं शुक्रं सत्यमिन्द्रस्येन्द्रियमिदं पयोऽमृतं मध्विन्द्रियं चैति॥७६॥