Yajurveda Bhashyam (Swami Dayanand Saraswati)

Yajurveda Adhyay 19 / Mantra 75

95 Mantra
19/75
Devata- प्रजापतिर्देवता Rishi- शङ्ख ऋषिः Chhand- भुरिगतिजगती Swara- निषादः
Mantra with Swara
अन्ना॑त् परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्यपिबत् क्ष॒त्रं पयः॒ सोमं॑ प्र॒जाप॑तिः। ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानंꣳ शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑॥७५॥

अन्ना॑त्। प॒रि॒स्रुत॒ इति॑ परि॒ऽस्रुतः॑। रस॑म्। ब्रह्म॑णा। वि। अ॒पि॒ब॒त्। क्ष॒त्रम्। पयः॑। सोम॑म्। प्र॒जाप॑ति॒रिति॑ प्र॒जाऽप॑तिः। ऋ॒तेन॑। स॒त्यम्। इ॒न्द्रि॒यम्। वि॒पान॒मिति॑ वि॒ऽपान॑म्। शु॒क्रम्। अन्ध॑सः। इन्द्र॑स्य। इ॒न्द्रि॒यम्। इ॒दम्। पयः॑। अ॒मृत॑म्। मधु॑ ॥७५ ॥

Mantra without Swara
अन्नात्परिस्रुतो रसम्ब्रह्मणा व्यपिबत्क्षत्रम्पयः सोमम्प्रजापतिः । ऋतेन सत्यमिन्द्रियँविपानँ शुक्रमन्धसऽइन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु ॥

अन्नात्। परिस्रुत इति परिऽस्रुतः। रसम्। ब्रह्मणा। वि। अपिबत्। क्षत्रम्। पयः। सोमम्। प्रजापतिरिति प्रजाऽपतिः। ऋतेन। सत्यम्। इन्द्रियम्। विपानमिति विऽपानम्। शुक्रम्। अन्धसः। इन्द्रस्य। इन्द्रियम्। इदम्। पयः। अमृतम्। मधु॥७५॥

Yajurveda Bhashyam (Swami Dayanand Saraswati)

संस्कृत
Yajurveda Bhashyam (Swami Dayanand Saraswati) - संस्कृत
Meaning
(अन्नात्) यवादेः (परिस्रुतः) सर्वतः स्रुतः पक्वात् (रसम्) सारभूतम् (ब्रह्मणा) अधीतचतुर्वेदेन (वि) (अपिबत्) गृह्णीयात् (क्षत्रम्) क्षत्रियकुलम् (पयः) दुग्धमिव (सोमम्) ऐश्वर्ययुक्तम् (प्रजापतिः) प्रजापालकः सभेशो राजा (ऋतेन) विद्याविनययुक्तेन न्यायेन (सत्यम्) सत्सु व्यवहारेषु साधु (इन्द्रियम्) इन्द्रेणेश्वरेण दत्तम् (विपानम्) विविधं पानं रक्षणं यस्मात् तत् (शुक्रम्) वीर्यकरम् (अन्धसः) अन्धकाररूपस्याऽन्यायस्य निवर्तकम् (इन्द्रस्य) समग्रैश्वर्यप्रदस्य राज्यस्य (इन्द्रियम्) इन्द्रै राजभिर्जुष्टं न्यायाऽऽचरणम् (इदम्) (पयः) पातुमर्हम् (अमृतम्) अमृतमिव सुखप्रदम् (मधु) माधुर्यगुणोपेतम्॥७५॥
Essence
ये विद्वदनुमत्या राज्यं वर्द्धितुमिच्छन्ति, तेऽन्यायं निवर्तयितुं राज्यं वर्द्धयितुं च शक्नुवन्ति॥७५॥
Subject
कथं राज्यमुन्नेयमित्याह॥
Anvaya
यो ब्रह्मणा सह प्रजापतिः परिस्रुतोऽन्नान्निःसृतं पयः सोमं रसं क्षत्रं च व्यपिबत्, स ऋतेनाऽन्धसो निवर्तकं शुक्रं विपानं सत्यमिन्द्रियमिन्द्रस्य प्रापकमिदं पयोऽमृतं मध्विन्द्रियं च प्राप्नुयात्, स सदा सुखी भवेत्॥७५॥